________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये
[अ. २. १"निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि। प्रधानकारणीभूना यतो मुज्यशक्तयः ॥ निमित्तमात्र मुक्त्वैव नान्यत्किचिदपेक्षते । नीयते तपा श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम्" इति । स्वशक्त्या स्वकर्मणैव देवादिषस्तुतामाप्तिरिति ॥ न कर्माविभागादिति चेन्नानादित्वादुपपद्यते
चाप्युपलभ्यते च ।२।२। ३५ ॥
पाक्पष्टेः क्षेत्रज्ञा नाम न सन्तिः कुतः,अविभागश्रवणात ,२"सदेव सोम्येदमग्रआसीत् " इति; अतस्तदानीं तदभावात्तत्कर्म न विद्यते; कथं तदपेक्षं सृष्टिवैषम्यमित्युच्यत इतिचेत्-न, अनादित्वात् क्षेत्रज्ञानां तत्कर्मप्रवाहाणां च । तदनादित्वेऽप्यविभाग उपपयते च; यतस्तत् क्षेत्रज्ञवस्तु परित्यक्तनामरूपं ब्रह्मशरीरतयापि पृथग्व्यपदेशानहमतिमूक्ष्मम्। तथाऽनभ्युपगमे अकृताभ्यागमकृतविपणाशप्रसाश्च। उपलभ्यते च तेषामनादित्वं-३"न जायते म्रियते वा विपश्चित" इति । सृष्टिप्रवाहानादित्वं च "मूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्" इत्यादौ । ५"तदेदं तीव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत" इति नामरूपव्याकरणमालश्रवणात् क्षेत्रज्ञानां स्वरूपानादित्वं सिद्धम् । स्मृतावपि ६"प्रकृतिं पुरुषं चैव विख्यनादी उभावपि" इति । अतस्सर्वविलक्षणत्वात्सर्वशक्तित्वात्, लीलैकप्रयोजनत्वात्,क्षेत्रज्ञकर्मानुगुण्येन विचित्रसृष्टियोगामेव जगत्कारणम् ॥ ३५॥
सर्वधर्मोपपत्तेश्च । २।२।३६ ॥ प्रधानपरमाण्वादीनां कारणत्वे यदर्मवैकल्यमुक्तं, वक्ष्यमाणं च
१. वि. पु. १.४.५१, ५२ ॥-२. छा. ६-२-१ ॥-३. कठ. १-२-१८॥४. ते. नारा. १.१४॥-५. १. ३-४-७ ॥-६. गी. १३.१९॥
For Private And Personal Use Only