________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
कृत्नप्रसक्त्यधिकरणम्.
६३
स्वपक्षदोषाच्च ॥ कृत्स्नप्रसत्तत्यादिदोषः निरवयवेऽचित्सजातीये प्र धाने एवेति ब्रह्मैव कारणम् ॥ २९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सर्वोपेता च तद्दर्शनात् || १ पराऽस्य शक्तिर्विविधैव श्रूयते" इति श्रुतेः सर्वशक्तियोगश्च देवताया अवगम्यते ॥ ३० ॥
विकरणत्वान्नेतिचेत्तदुक्तम् ॥ २"न तस्य कार्य करणञ्च विद्यते" इतिब्रह्मणो विकरणत्वात् कारणत्वं नेति चेत् तस्योत्तरं - शब्दैकमूलत्वेन विसजातीयत्वादिति पूर्वसूत्रोक्तमेव ॥ ३१ ॥
इति वेदान्तसारे कृत्स्नप्रसक्त्यधिकरणम् ॥ ९ ॥
वेदान्तदीपे - कृत्स्नमसक्तिर्निरवयत्वशब्दकोपो वा । ब्रह्मणो जग त्कारणत्वं सम्भवति, नेति संशयः । न सम्भवतीति पूर्वः पक्षः, निरवयवस्य ब्रह्मणो जगदुपादानत्वे कृत्स्नस्य ब्रह्मणो जगदाकारेणोपयोगप्रसङ्गात् तत्परिजिहीर्षया सावयवत्वाभ्युपगमे ३" सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् " इत्यादिः कारणावस्थायां निरवयवत्ववाचिशब्दो बाध्येत । यद्यपि सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणम्, स्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यमित्यभ्युपगम्यते, तथापि शरीर्यशस्यापि कार्यत्वाभ्युपगमात् कृत्स्नप्रसक्तिर्निरवयवत्वशब्दबाधो वा । राद्धान्तस्तु-सकलेतरविसजातीयं श्रुत्येकसमधिगम्यं सर्वशक्तियुक्तं ब्रह्म निरवयवमपि कार्यञ्च भवति, अन्यच्च भवतीति परिमितशक्तिवस्तुचोद्यं न तत्र प्रसज्यते । यथा जातिवादिनो जातिरेकैवामूर्ता खण्डमुण्डादिष्वत्यन्तविलक्षणेषु अनन्तेष्वपि परिसमाप्यैव वर्तते ; न तत्रेतरवस्तुचोद्यमिति । भतो ब्रह्मणः जगत्कारणत्वं संभवत्येव । सूत्रार्थस्तु — कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा - ब्रह्मकारणत्वे कृत्स्नस्य ब्रह्मणः कार्यत्वेनोपयोगप्रसङ्गः, निरवयवत्वात् ; सावयवत्वे निरवयवत्वशब्दकोपो वा निरवयवत्ववादिशब्दबाधप्रसङ्ग इत्यर्थः ॥ २६ ॥
श्रुतेस्तु शब्दमूलत्वात्।। तुशब्दः पक्षव्यावृत्त्यर्थः । श्रुतेः श्रुतिप्रामाण्यानैवं प्रसज्यते ; शब्दमूलत्वात् शब्देक मूलत्वेन सकलेतरविजातीयत्वादित्यर्थः ॥ आत्मनि चैवं विचित्राव हि ।। आत्मनि चैवं - जीवात्मन्यचेतनध
१. वे. ३-८ ॥ २. श्वे. ६-१६ ॥ - ३. छा. ६-२-१॥
For Private And Personal Use Only