________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तसारे
[अ. २. शोको विजिघत्सोऽपिपासः"इति सकलेतरविसजातीयता परस्या देवतायाः प्रतिपाद्य “सत्यकामस्सत्यसङ्कल्पः" इति सर्वशक्तियोग प्रतिपादयन्ति। तथा २"मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः"इति च ।। विकरणत्वान्नेतिचेत्तदुक्तम् । २।१।३१ ॥ ___ यद्यप्येकमेव ब्रह्म सकलेतरविलक्षणं सर्वशक्ति; तथापि ३“न तस्य कार्य करणं च विद्यते"इति करणविरहिणस्तस्य न कार्यारम्भस्सम्भवतीति चेत् तत्रोत्तरं-"शब्दमूलत्वात्"। "विचित्राश्चहि" इत्युक्तम् । शब्दकप्रमाणं सकलेतरविलक्षणं तत्तत्करणविरहेणापि तत्तत्कार्यसमर्थमित्यर्थः । तथाच श्रुतिः-४"पश्यत्यचक्षुस्स शृणोत्यकर्णः अपाणिपादो जवनो ग्रहीता" इत्येवमाद्या ॥
इति श्रीशारीरकमीमांसाभाष्ये कृत्स्नप्रसक्त्यधिकरणम् ॥ ९ ॥ वेदान्तसारे-कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ चिदचि दूस्तुशरीरकं ब्रह्मैव कार्यकारणावस्थमिति हुक्तम् ; तत्र ब्रह्मणश्शरीरिणो नि रवयवत्वेन कृत्स्नस्य ब्रह्मणः कार्यत्वेनोपयोगप्रसक्तिः ; कार्यावस्थायामपि अंशा न्तरेणावस्थितमिति च पक्षे निरवयवत्वशब्दकोपो वा त्यात् ; अतो ग्रह न का रणम् ॥ २६॥ परिहरति
श्रुतेस्तु शब्दमूलत्वात् ॥ श्रुतिप्रामाण्यानैवं प्रसज्यते । शब्दैकप्रमा णकत्वाद्ब्रह्मस्वरूपस्य सकलेतरप्रमाणावगतवस्तुविसजातीयत्वेन तत्रतत्रादृष्ट शक्तियोगः ब्रह्मणो न विरुद्धः ; अतः कार्यत्वेन कारणत्वेन परिपूर्णस्यावस्थान सम्भवति । यथा जातिवादिनां जातेः खण्डमुण्डादिषु ॥२७॥
आत्मनि चैवं विचित्राश्च हि ॥ जीवात्मनि चाचिद्धर्मविरोधिधर्म योगो विसजातीयशक्तित्वादेव, अग्निजलादयोऽप्यचिद्विशेषाः अन्योन्यविलक्ष णाः नियतशक्तयो विचित्राः दृश्यन्ते ॥२८॥ १. छा. ८-१.५ ॥-२. छा. ३-१४-२ ॥-३. श्वे. ६-८ ।।---४. श्वे. ३.१९ ।।
For Private And Personal Use Only