________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
कृत्स्नप्रसक्त्यधिकरणम्
वशक्तयः । भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता " इति । श्रुतिः १" किं विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनी षिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवी मि वो ब्रह्माध्यतिष्ठद्भवनानि धारयन्" इति । सामान्यतो दृष्टं चोद्यं सर्व वस्तुविलक्षणे परे ब्रह्मणि नावतरतीत्यर्थः ॥
इतध
५.
स्वपक्षदोषाच्च । २ । १ । २९ ॥
स्वपक्षे - प्रधानादिकारणवादे, लौकिक क्स्तुविसजातीयत्वाभावेन प्रधानादे: लोकदृष्टा दोषास्तत्र भवेयुरिति सकलेतरविलक्षणं ब्रह्मैव का रणमभ्युपगन्तव्यम् | प्रधानं च निरवयवम् ; तस्य निरवयवस्य कथ Ha महदादिविचित्रजगदारम्भ उपपद्यते । सत्त्वं रजस्तम इति तस्या वयवा विद्यन्त इति चेत् — तवेदं विवेचनीयम्; किं सत्त्वरजस्तमसा समूहः प्रधानम् ; उत सत्त्वरजस्तमोभिरारब्धं प्रधानम् ; अनन्तरे कल्पे प्रधानं कारणमिति स्वाभ्युपगमविरोधः ; स्वाभ्युपेतसङ्ख्याविरोधश्च ; तेषामपि निरवयवानां कार्यारम्भविरोधश्च । समूहपक्षे च तेषां निरवयवत्वेन प्रदेशभेदमनपेक्ष्य संयुज्यमानानां न स्थूलद्रव्यारम्भकत्वसिद्धिः। परमाणु कारणवादेऽपि तथैव अणवो निरंशाः निष्प्रदेशाः प्रदेश भेदमनपेक्ष्य परस्परं संयुज्यमाना अपि न स्थूलकार्यारम्भाय प्रभवेयुः ॥
For Private And Personal Use Only
सर्वोपेता च तद्दर्शनात् । २ । १ । ३० ॥
सकलेतरवस्तुविसजातीया परा देवता सर्वशक्त्युपेता च । तथैव परां देवतां दर्शयन्ति हि श्रुतयः - २" पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च " तथा ३" अपहतपाप्मा विजरो विमृत्युर्वि -
१. यजुषि :- अष्ट. २ - प्र. ७- अनु ॥ २. वे. ६-७ ॥ - ३. छा. ८-१-५॥