________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४
[अ. २.
मप्रसक्तिश्चैवम् अचेतनविजातीयत्वादेवेत्यर्थः । विचित्राश्च हि -अत्रेतनेषु च विसजातीयेष्वग्निजलादिषु विचित्रा हि शक्तयो दृश्यन्ते; एवं परमात्मनश्चेतनाचेतनविसजातीयस्य विचित्रारशक्तय उपपद्यन्ते ॥ २८ ॥
श्रीशारीरकमीमांसाभाष्ये
Acharya Shri Kailassagarsuri Gyanmandir
स्वपक्षदोषाच्च ॥ प्रधानादिकारणपक्षे दोषाश्च ब्रह्मैव जगत्कारणम् । तत्र हि लौकिकवस्तुसजातीयत्वेन प्रधानादेरुक्तदोषोऽन्ये च प्रसज्येरन् ॥ २९ ॥ सर्वोपेता च तदर्शनात् ॥ न केवलं सकलेतरविसजातीयत्वेन सर्वशक्त्युपेता परा देवतेत्युच्यते ; तद्दर्शनाच्च - सर्वशक्तियोगश्रुतेरित्यर्थः । द र्शयतीति दर्शनं श्रुतिः, १" पराऽस्य शक्तिर्विविधैव श्रूयते" इत्यादिका ॥ ३०॥ विकरणत्वान्नेतिचेत्तदुक्तम् ॥ उक्तस्यार्थस्य द्रढिने चोद्यपूर्वकं पूर्वोक्तं स्मारयति - विकरणत्वात्-करणविरहितत्वाद्ब्रह्म न कारणमिति चेत् ; २"न तस्य कार्य करणं च विद्यते " इति हि श्रूयते । तदुक्तम् - अत्र यद्वक्तव्यम्, तत्पूर्वमेवोक्तम् " शब्दमूलत्वात्" "विचित्राश्च हि" इति । अयमेव परिहारः श ब्दैकमूलत्वेन सकलेतरविसजातीयत्वाद्ब्रह्मणः, विसजातीयानां च शक्तिवैचित्रयस्य लोकदृष्टत्वात्सर्वमुपपन्नमित्यर्थः ॥ ३१ ॥
इति वेदान्तदीपे कृत्स्नप्रसक्त्यधिकरणम् ॥ ९ ॥
(श्रीशारीरकमीमांसाभाष्ये प्रयोजनवत्त्वाधिकरणम् ॥ १० ॥ )
न प्रयोजनवत्त्वात् । २ । १ । ३२ ॥ ratश्वरः प्राक्सृष्टेरेक एव सन् सकलेतरविलक्षणत्वेन सर्वार्थशक्तियुक्तः स्वयमेव विचित्रं जगत्स्रष्टुं शक्नोति ; तथापीश्वरकारणत्वं न सम्भवति, प्रयोजनवत्त्वाद्विचित्रसृष्टेः, ईश्वरस्य च प्रयोजनाभावात्। बुद्धिपूर्वकारिणामारम्भे द्विविधं हि प्रयोजनं स्वार्थः परार्थो वा । नहि परस्य ब्रह्मणस्स्वभावत एवावाप्तसमस्तकामस्य जगत्सर्गेण किंचन प्रयोजनमनवाप्तमवाप्यते । नापि परार्थः, अवाप्तकामस्य परार्थता हि परानुग्रहेण भवति नचेदृशगर्भजन्मजरामरणनरकादिनानाविधानन्तदुःखबहुलं
१. वे. ६-८ ॥ २. श्वे. ६-१६॥
For Private And Personal Use Only