________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] उपसंहारदर्शनाधिकरणम् . भेदश्रुत्याऽर्थान्तरताऽवगम्यते, वस्त्वनुपपत्त्या चेत्यर्थः। जीवसामानाधिकरण्य. निर्देशः १“यस्यात्मा शरीरम्" इत्यादिश्रुतिशतसिद्धजीवप्रकारकब्रह्मप्रतिपादनपर इति २"अवस्थितेरिति काशकृत्स्नः' इत्यत्रैव प्रतिपादितः ॥ २३ ॥
इति वेदान्तदीपे इतरव्यपदेशाधिकरणम् ॥ ७ ॥
....( श्रीशारीरकमीमांसाभाष्ये उपसंहारदर्शनाधिकरणम् ).....
उपसंहारदर्शनान्नेतिचेन्न क्षीरवद्धि ।२।१॥२४॥ ___परस्य ब्रह्मणस्सर्वज्ञस्य सत्यसङ्कल्पस्य स्थूलसूक्ष्मावस्थसर्वचेतनाचेतनवस्तुशरीरतया सर्वप्रकारत्वेन सर्वात्मत्वं सकलेतरविलक्षणत्वं चाविरुद्धमिति स्थापितम् । इदानीं सत्यसङ्कल्पस्य परस्य ब्रह्मणः सङ्कल्पमात्रेण विचित्रजगत्सृष्टियोगो न विरुद्ध इति स्थाप्यते । ननु च परिमितशक्तीनां कारककलापोपसंहारसापेक्षत्वदर्शनेन सर्वशक्तेब्रह्मणः कारककलापानुपसंहारेण जगत्कारणत्वविरोधः कथमाशङ्कयते ? ; उच्यते-लोके तत्तत्कार्यजननशक्तियुक्तस्यापि तत्सदुपकरणापेक्षत्वदर्शनासर्वशक्तियुक्तस्य परस्य ब्रह्मणोऽपि तत्तदुपकरणविरहिणः स्रष्टत्वं नोपपद्यत इति कस्यचिन्मन्दधियश्शङ्का जायत इति सा निराक्रियते । घटपटादिकारणभूतानां कुलालकुविन्दादीनां तज्जननसामर्थ्य सत्यपि कानिचिदुपकरणान्युपसंहृत्यैव जनयितृत्वं दृश्यते । तज्जननाशक्ताः कारककलापोपसंहारेऽपि जनयितुं न शक्नुवन्ति ; शक्ताः पुनः कारककलापोपसंहारे जनयन्तीत्येतावानेव विशेषः । ब्रह्मणोऽपि सर्वशक्तेः सर्वस्य जनयितृत्वं तदुपकरणानामनुपसंहारे नोपपद्यते। पाक्सृष्टेश्वासहायत्वं --३"सदेव सोम्येदमग्रआसीत्" ४"एको ह वै नारायण आसीत्"इत्या१.इ. ५-७-२२-मा.पा ॥-२.शारी. १-४-२२॥-३.ा. ६-२-२॥–४.महो.१-२॥
*8
For Private And Personal Use Only