________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५६
वेदान्तदीपे
[अ. २.
"
"
करणादिदोषप्रसक्तिरनिवार्या । जीवब्रह्मणोरज्ञानकृतो भेदः, तद्विषया भेदश्रुतिरिति चेत्-तत्रापि जीवाज्ञानपक्षे पूर्वोको १ दोषस्तत्फलं च तदवस्थमेव । ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूपस्य ब्रह्मणोऽज्ञानसाक्षित्वं तत्कृतजगत्सृष्टिश्च न सम्भवति : अज्ञानेन प्रकाशस्तिरोहितश्चेत्-तिरोधानस्य प्रकाशनवृत्तिकरत्वेन प्रकाशस्यैव स्वरूपत्वात्स्वरूपनिवृत्तिरेवेति स्वरूपनाशादिदोषाः भाष्ये प्रपश्चिताः । राद्धान्तस्तु – २ " अस्मान्मायी सृजते विश्वमेतत्तस्मिञ्चान्यो मायया सन्निरुद्धः ३ ' तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति' ४' प्रधानक्षेत्रज्ञपतिर्गुणेशः ५" पृथगात्मानं प्रेरितारं च मत्वा" इत्यादिभिः प्रत्यगात्मनोऽर्थान्तरभूतं ब्रह्मेत्यवगमात् जीवकर्मानुगुणतया जगत्सर्गस्य च ब्रह्मणो लीलाप्रयोजनत्वात् जगत्कारणत्वं सम्भवत्येव । तत्त्वमस्यादिसामानाधिकरण्यनिर्देशः ६" यस्यात्मा शरीरम्" इत्यादिश्रुतेर्जीवस्य ब्रह्मशरीरत्वात्तच्छरीरतया जीवप्रकारक ब्रह्मप्रतिपादनपरः । सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणावस्थम्, स्थूलचिदचिद्वस्तुशरीरं ब्रह्मैव कार्यावस्थमिति कार्यकारणयोरनन्यत्वम् । एवमपि शरीरभूतयोश्चिदचिद्वस्तुनोः शरीरिणो ब्रह्मणश्च दुःखित्वपरिणामित्व हेयप्रत्यनीकत्व कल्याणगुणाकरत्वस्वभावाः स्वरूपविवेकविषयश्रुतिसिद्धाः तथैव व्यवस्थिता इति ब्रह्मणो जगत्कारणत्वं सम्भवत्येव सूत्रार्थस्तु - इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः: - ब्रह्मण इतरः जीवः ब्रह्मणो जीवतया व्यपदेशात्, जीवस्य च दुःखित्वात्, हितरूपजगदकरणमाहितरूपजगत्करणमित्यादिदोषप्रसक्तिर्ब्रह्मणः । अतो ब्रह्मणो जगत्कारणत्वं न सम्भवतिइति ॥ २१ ॥
2
Acharya Shri Kailassagarsuri Gyanmandir
अत उत्तरं पठति
अधिकन्तु भेदनिर्देशात् ॥ तुशब्दः पक्षव्यावृत्त्यर्थः प्रत्यगात्मनः अधिकम् - अर्थान्तरभूतं ब्रह्म । कुतः ? भेदनिर्देशात् - ७"स कारणं करणाधिपाधिपः " ४ " प्रधानक्षेत्रज्ञपतिर्गुणेशः " ५" पृथगात्मानं प्रेरितारं च मत्वा" इत्यादिभिः प्रत्यगात्मनो जीवाद्ब्रह्मणो हि भेदो निर्दिश्यते ॥ २२ ॥
अश्मादिवच्च तदनुपपत्तिः ॥ अश्मकाष्ठलोष्टतृणादेरचेतनस्येवानन्तदुःखाकरजीवस्य निरतिशयानन्दसत्यसङ्कल्पब्रह्मभावानुपपत्तिश्च । न केवलं
१. दोषविकल्पस्तत्फलं च. पा॥ २. वे. ४-६ ॥ - ३. मु.३-१-१;वे. ४-६॥ —– ४. श्वे. ६-१६ ॥ ५. वे. १-६ ॥ - ६. दु. ५-७-२२. मा. पा॥७, वे. ६-९ ॥
For Private And Personal Use Only