________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.१.] इतरव्यपदेशाधिकरणम्.
वेदान्तसारे-इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः॥ १"त त्वमसि" २ "अयमात्मा ब्रह्म' इति कार्यभूतस्य जीवस्य ब्रह्मभावव्यपदेशाद्धि अनन्यत्वमुक्तम् ; एवन्तर्हि सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मणः आत्मनो हितरूप. कार्यजगदकरणम् , अहितरूपकार्यकरणञ्चेत्यादिदोषप्रसक्तिः ॥ २१ ॥
नैतत्---
अधिकन्तु भेदनिर्देशात् ॥ कार्यकारणयोरनन्यत्वेऽपि जीवस्वरू. पात् ब्रह्मस्वरूपमर्थान्तरम् , ३'करणाधिपाधिपः" ४"विद्याविद्ये ईशते यस्तु सोऽन्यः” इत्यादिभेदनिर्देशात् । चिदचिद्वस्तुशरीरं ब्रह्मैव कारणावस्थं कार्यावस्थञ्चेति गुणदोषव्यवस्थितिरिति ५“न तु दृष्टान्तभावात्" इति युक्तम् । ६“यस्य पृथिवी शरीरम्" ७“यस्यात्मा शरीरम्" इत्यादिश्रुतिशतसमधिगतं चिदचिद्वस्तुशरिकत्वम् ॥ २२ ॥
अश्मादिवञ्च तदनुपपत्तिः ॥ अश्मकाष्ठलोष्टतृणादेरचेतनस्येव जीवस्य ८ "अनीशया शोचति मुह्यमानः" इत्यादिना अत्यन्तविसजातीयतयाऽभिहितस्य सर्वशसत्यसङ्कल्पब्रह्मस्वरूपतानुपपत्तिस्सिङ्ख्यत्येवेत्यर्थः ॥ २३ ॥
इति वेदान्तसारे इतरव्यपदेशाधिकरणम् ॥ ७ ॥ वेदान्तदीपे-इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ ब्रह्मणो जगत्कारणत्वं सम्भवति, नेति संशयः। न सम्भवतीति पूर्वः पक्षः, ९"अयमात्मा ब्रह्म" १"तस्त्वमसि” इति सामानाधिकरण्येन जीवो ब्रह्मत्यवगमात्, जगत्सर्गस्य च जीवदुःखहेतुत्वात् , आत्महिताकरणादिदोषप्रसक्तेः सर्वशस्य सत्यसङ्कल्पस्य ब्रह्मणो जगत्कारणत्वानुपपत्तेः । जीवपरयोर्भेदवादिन्यश्श्रुतयः, जगबह्मणोरनन्यत्वं वदता त्वयैव परित्यक्ताः, भेदे सत्यनन्यत्वासिद्धः । औपाधिकभेदविषयाः भेदश्रुतयः, स्वाभाविकाभेदविषया अभेदश्रुतयः इति चेत् -तत्रेदं वक्तव्यम् , स्वभावतः स्वस्मादभिन्नं जीवं किमनुपहितं जगत्कारणं ब्रह्म जानाति, न वा ; न जानाति चेत्स र्वशत्वहानिः ; जानाति चेत्स्वस्मादभिन्नस्य जीवस्य दुःखं स्वदुःखमिति जानतो ब्रह्मणः हिताकरणाहित
१. छा. ६-८-७ ॥–२, बृ. ६-४-५ ॥-३. श्वे. ६-९॥--४. श्वे. ५-१ ।। --- ५. शारी. २-१.९ ॥-६. सुबाल. ७. ख |---७. यू. ५-७-२२. मा. पा॥-८. मु. ३-१-२; श्वे. ४.७॥-९. वृ. ६.४-५॥
For Private And Personal Use Only