________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाम्ये
[अ. २. च ब्रह्मणश्च परिणामित्वदुःखित्वकल्याणगुणाकरत्वस्वभावासङ्करस्सर्वश्रुत्यविरोधश्च भवति । १ "सदेव सोम्येदमग्र आसीदेकमेव" इत्यविभागावस्थायामप्यचिद्युक्तजीवस्य ब्रह्मशरीरतया सूक्ष्मरूपेणानस्थानमवश्याभ्युपगन्तव्यम्,२ "वैषम्यनैघृण्ये न सापेक्षत्वात्"३"न कर्माविभागा दितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च" इति सूत्रद्वयोदितत्वात्तदानीमपि सूक्ष्मरूपेणावस्थानस्य । अविभागस्तु नामरूपविभागाभावादुपपद्यते । अतो ब्रह्मकारणत्वं सम्भवत्येव । ये पुनरस्यैव जीवस्याविद्यावियुक्तावस्थामभिप्रेत्येमं भेदं वर्णयन्ति, तेषामिदं सर्वमसङ्ग स्यात् । न हि तदवस्थस्य सर्वज्ञत्वं, सर्वेश्वरत्वं, समस्तकारणत्वं, सर्वात्मत्वं, सर्वनियन्तृत्वमित्यादीनि सन्ति । अनेनैव रूपेण ह्याभिः श्रुतिभिः प्रत्यगात्मनो भेदः प्रतिपाद्यते; तस्य सर्वस्याविद्यापरिकल्पिनत्वात् । नचाविद्यापरिकल्पितस्याविद्यावस्थायां शुक्तिकारजतादिभेदवत्परस्परभेदोऽत्र सूत्रकारेण ४"अधिकन्तु भेदनिर्देशात्" इत्यादिषु प्रतिपाद्यते; ब्रह्मजिज्ञासा कर्तव्येति जिज्ञास्यतया प्रक्रान्तस्य ब्रह्मणो जगजन्मादिकारणस्य वेदान्तवेद्यत्वम् , तस्य च स्मृतिन्यायविरोधपरिहारश्च क्रियते। ५"अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्"६"न तु दृष्टान्तभावात्" इति सूत्रद्वयमेतदधिकरणसिद्धमनुवदति । तत्र हि विलक्षणयोः कार्यकारणभावसम्भव एवाधिकरणार्थः । ७'असदिति चेन्न प्रतिषेधमानत्वा" इति च पूर्वाधिकरणस्थमनुवदति ॥ २३ ॥
इति श्रीशारीरकमीमांसाभाष्ये इतरव्यपदेशाधिकरणम् ॥ ७ ॥
१. छा, ६-२-१ ॥–२, शारी. २- १-३४ ॥ -३. शारी. २ - १ - ३५ ॥४. शारी. २-१-२२ ॥ --- ५. शारी. २-१-८॥ --६. शारी. २-१.९ ॥ --७. शारी. २-१-७॥
For Private And Personal Use Only