________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १
इतरव्यपदेशाधिकरणम् अनश्नन्मन्यो अभिचाकशीति"१"ज्ञाज्ञौ द्वावजावीशनीशौ" २ "प्राज्ञेनाsत्मना सम्परिष्वक्तः" ३"प्राज्ञेनात्मनाऽन्वारूढः" ४'अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सनिरुद्धः" ५"प्रधानक्षेत्रज्ञपतिर्गुणेश" ६"नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" ७"योऽव्यक्तमन्तरे सञ्चरन् यस्याव्यक्तं शरीरं यमव्यक्तं न वेद योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इत्यादिभिः॥ २२ ।'
अश्मादिवच्च तदनुपपत्तिः। २॥ १॥ २३॥
अश्मकाष्ठलोष्टतृणादीनामत्यन्तहेयानां सततविकारास्पदानामचिद्विशेषाणां निरवद्यनिर्विकारनिखिलहेयमत्यनीककल्याणकतानखेत - रसमस्तवस्तृविलक्षणानन्तज्ञानानन्दैकस्वरूपनानाविधानन्तमहाविभूति - ब्रह्मस्वरूपैक्यं यथा नोपपद्यते, तथा चेतनस्याप्यनन्तदुःखयोगार्हस्य खद्योतकल्पस्य ८"अपहतपाप्मा" इत्यादिवाक्यावगतसकलहेयप्रत्यनीकानवधिकातिशयासङ्खयेयकल्याणगुणाकरब्रह्मभावानुपपत्तिः । सामानाधिकरण्यनिर्देशः९“यस्यात्मा शरीरम्" इत्यादिश्रुतेर्जीवस्य ब्रह्मशरीरत्वाब्रह्मणो जीवशरीरतया तदात्मत्वेनावस्थितेर्जीवप्रकारब्रह्मप्रतिपादनपरचैतदविरोधी, प्रत्युत्तस्यार्थस्योपपादकश्चेति : ०"अवस्थितेरिति काशकृ. स्त्रः" इत्यादिभिरसकृदुपपादितम् । अतस्सर्वावस्थं ब्रह्म चिदचिद्वस्तुशरीरमिति सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणम् तदेव ब्रह्म स्थूलचिदचिद्वस्तुशरीरं जगदाख्यं कार्यमिति जगद्ब्रह्मणोस्सामानाधिकरण्योपपत्तिः, जगतो ब्रह्मकार्यत्वम् , ब्रह्मणोऽनन्यत्वम् , अचिद्वस्तुनो जीवस्य
१. श्वे. १-९ ॥--२. वृ. ६.३-२१॥-३. पृ. ६-३-३५॥–४. श्वे. ४.९ ॥ -५. श्वे. ६.१६॥-६. श्वे. ६.१३ ॥-७. सुबाल. ७ ॥-८. छा. ८-१-५ ॥९.१. ५-७-२२. मा. पा॥--१०. शारी. १-४-२२ ॥
For Private And Personal Use Only