________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
वेदान्तसारे
[अ. २.
दिषु प्रतीयते । अतस्त्रष्टृत्वं नोपपद्यत इत्येवं प्राप्तम् । तदिदमाशङ्कते - उपसंहारदर्शनान्नेतिचेत्-इति ॥
- (सिद्धान्तः)
परिहरति- न क्षीरवद्धि - इति ; न सर्वेषां कार्यजननशक्तानामुपसंहारसापेक्षत्वमस्ति ; यथा क्षीरजलादेर्दधिहिमजननशक्तस्य तज्जनने; एवं ब्रह्मणोऽपि स्वयमेव सर्वजननशक्तेस्सर्वस्य जनयितृत्वमुपपद्यते । हीति प्रसिद्धवनिर्देशश्नोद्यस्य मन्दताख्यापनाय । क्षीरादिष्वातञ्चनाद्यपेक्षा न दध्यादिभावाय ; अपितु शैघ्रयार्थं रसविशेषार्थवा ॥
देवादिवदपि लोके । २ । १ । २५ ॥
यथा देवादयः स्वेस्खे लोके सङ्कल्पमात्रेण स्वापेक्षितानि सृजन्ति; तथाऽसौ पुरुषोत्तमः कृत्स्नं जगत्सङ्कल्पमात्रेण सृजति । देवादीनां वेदावगतशक्तीनां दृष्टान्ततयोपादानम्, ब्रह्मणो वेदावगतशक्ते सुखग्रहणायेति प्रतिपत्तव्यम् ||
इति श्रीशारीरकमीमांसाभाष्ये उपसंहारदर्शनाधिकरणम् ॥ ८ ॥
वेदान्तसारे - उपसंहारदर्शनान्नेतिचेन्न क्षीरवद्धि । कार्यनिर्वृतावनेककारकोपसंहारदर्शनात् ब्रह्मैकमेव १ जगदाकारकार्यन्न भवेदितिचेत्-न, क्षीरस्यैव दधिभाववत् ब्रह्मणोऽपि सम्भवति ॥ २४ ॥
देवादिवदपि लोके ॥ यथा देवादेवशास्त्रावगतशक्तेः स्वसङ्कल्पादेव स्वेस्खे लोके स्वापेक्षितनानारूपभावः ; एवं ब्रह्मणोऽपि शास्त्रावगतशक्तेस्सर्वमुपपन्नम् ॥ २५ ॥
इति वेदान्तसारे उपसंहारदर्शनाधिकरणम् ॥ ८ ॥
वेदान्तदीपे - उपसंहारदर्शनानेतिचेन्न क्षीरवद्धि ॥ ब्रह्मणो जग त्कारणत्वं सम्भवति, न वेति संशयः; न सम्भवतीति पूर्वः पक्षः, लोके कार्य
१. जगत्कारणं न पा ॥
For Private And Personal Use Only