________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[भ. २. वेदान्तदीपे-तदनन्यत्वमारम्भणशब्दादिभ्यः॥ किं ब्रह्मकार्य जगत् ब्रह्मणोऽन्यत् ,उतानन्यदिति संशयः।अन्यदिति पूर्वः पक्षा, तथोपलब्धेः नहि बुद्धिशब्दान्तरादयः कारणात्कार्यस्यानन्यत्वे कथंचिदुपपद्यन्ते; कारकव्यापारवैयर्थ्य चानन्यत्वे; अतो वस्तुविरोधादनन्यत्बश्रुतयः लक्षणया नेयाः। राद्धान्तस्तु-१"वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” २“सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" ३"ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो"'४'सर्व खल्विदं ब्रह्म तजलानिति"५'तद्धेदं तहव्याकृतमासीत्तनामरूपाभ्यां व्याक्रियत" इत्यादिश्रुतिशतसिद्धं कार्यस्य जगतः कारणाद्ब्रह्मणोऽनन्यत्वम्।नचात्र वस्तुविरोधगन्धः; कारणभूतमृदादिद्रव्यस्यैव पृथुबुध्नोदराद्यवस्थान्तरापत्त्या बुद्धिशब्दा. न्तरादयोऽप्युपपद्यन्ते। ततएव कारकव्यापाराद्यर्थवत्त्वञ्च ; कारणस्यैव काविस्थायामपि प्रत्यभिज्ञायमानस्यावस्थान्तरापत्त्यैव सर्वेषूपपनेषु अनुपलब्ध. द्रब्यान्तरकल्पना न सम्भवति; तस्माद्रह्मकार्य जगत् ब्रह्मणोऽनन्यदेव ॥
सूत्रार्थस्तु तस्मात् ब्रह्मणः, अनन्यत्वं कार्यस्य जगतः आरम्भणशब्दादिभ्यो वाक्येभ्यस्तदुपपादयद्भयोऽवगम्यते; आरम्भणमिति शब्द आदिर्येषां पूर्वोक्तानां वाक्यानाम् , तान्यारम्भणशब्दादीनि ; तान्यनन्यत्वमुपपादयन्ति॥
भावेचोपलब्धेः ॥ घटादिकार्यभावे च तदेवेदं मृद्दव्यमित्थमवस्थितमिति कारणस्य उपलब्धेश्च कारणादनन्यत्वं कार्यस्य । यथा देवदत्तस्य बालत्वयुवत्वाद्यवस्थाविशिष्टस्य नान्यत्वम् ॥ १६॥
सत्त्वाचापरस्य ॥ अपरस्य कार्यस्य कारणे सत्त्वाच्च कारणादनन्यकार्यम् । सर्वमिदं घटशरावादिकार्य पूर्वाह्ने मृदेवासीदिति हि कारणे कार्यमुपलभ्यते । घटशरावादिसंस्थानसंस्थितमेव मृद्दव्यं पूर्वकाले पिण्डाकारमुपलब्धमित्यर्थः॥१७॥
____ असद्यपदेशान्नेतिचेन्न थर्मान्तरेण वाक्यशेषाद्युक्तेश्शब्दान्तराच।। ६ असदेवेदमग्र आसीत्" ७'इदं वा अग्रे नैव किञ्चनासीत्” इत्यादिषु कारणावस्थायां कार्यस्यासत्त्वव्यपदेशात् कारणे कार्य सदित्येतन्नोपपद्यत इति चेन, सदितिव्यपदेशहेतुभूतनामरूपावस्थाविरोधिसूक्ष्मावस्थाख्यधर्मान्तरेण
१. छा, ६-१-५॥-२. छा. ६-२-१ ॥-३. छा.६-८-७॥--४. छा. ३-१४१॥-५. ३. ३-४-७॥-६. छा. ६-२-१॥~-७. यजुषि. २-अष्ट, २-प्र. ८-अनु ।
For Private And Personal Use Only