________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
इतरव्यपदेशाधिकरणम्. योगादसदिति व्यपदिश्यते । कथमिदमवगम्यते ? वाक्यशेषायुक्तेश्शब्दान्तराश्च । वाक्यशेषस्तावत् १"तदसदेव सन्मनोऽकुरुत स्याम्" इति। असदिति व्यपदिष्टस्यैव मनस्कारप्रतिपादनेन असदश्यपदेशो धर्मान्तरयोगादित्यवगम्यते। युक्तिश्च धर्मान्तरयोगमेवासद्वन्यपदेशहेतुमवगमयति ; घटोऽस्ति घटो नास्तीति सदसद्यपदेशयोः घटत्वकपालत्वयोः परस्परविरोधिधर्मयोरेव हेतुत्वे सिद्धेतदतिरिक्तानुपलब्धतुच्छत्वस्य हेतुत्वकल्पनानुपपत्तेः। तथा शब्दान्तरं च "२सदेवसोम्येदमग्र आसीत् ” इति समानप्रकरणस्थमसच्छब्दं धर्मान्तरयोगनिमित्तमवगमयति ॥१८॥
पटवच्च ॥ यथा तन्तव एव व्यतिषङ्गविशेषभाजः पट इति नामरूपाभ्यां कार्यान्तरादिकं भजन्ते, तद्ब्रह्मापि ॥ १९ ॥
चथाच प्राणादिः॥ यथा च वायुरेक एव शरीरे वृत्तिविशेषं भजमानः प्राणापानादिनामरूपकार्यान्तराणि भजते, तद्वब्रह्मापीति तदनन्यत्वं जग. तस्सिद्धम् ॥२०॥
इति वेदान्तदीपे आरम्भणाधिकरणम् ॥ ६ ॥
..(श्रीशारीकमीमांसाभाष्ये इतरव्यपदेशाधिकरणम् ॥ ७॥)...
इतरव्यपदेशाद्धिताकारणादिदोषप्रसक्तिः२।१।२१
जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भिः३"तत्त्वमसि'४"अयमात्मा ब्रम"इत्यादिभिर्जीवस्यापि ब्रह्मानन्यत्वं व्यपदिश्यत इत्युक्तम् तत्रेदं चोद्यते यदीतरस्य. जीवस्य ब्रह्मभावोऽमीभिर्वाक्यैर्व्यपदिश्यते, तदा प्रह्मणः सार्वज्यसत्यसङ्कल्पत्वादियुक्तस्यात्मनो हितरूपजगदकरणमहितरूपजगत्करणमित्यादयो दोषाः प्रसज्येरन् । आध्यात्मिकाधिदैविका. धिभौतिकानन्तदुःखाकरं चेदं जगत् नचेदृशे खानर्थे स्वाधीनो बुद्धिमान
१. यजुपि. २, अष्ट. २. प्र. ८. अनु ।-२. छा. ६-२-१॥-३. छा. ६.८.७॥ -४... ६-४-५॥
For Private And Personal Use Only