________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
आरम्भणाधिकरणम् दिनामरूपकार्यान्तराणि भजते ; तद्ब्रह्मैकमेव विचित्र स्थिरत्नसरूपं जगद्भवतीति परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वं जगतस्सिद्धम् ॥ २० ॥
इति श्रीशारीरकमीमांसाभाष्ये आरम्भणाधिकरणम् ॥ ६॥
वेदान्तसारे-तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ कारणभूताब्रह्मणोऽनन्यत्वं कार्यभूतजगतः वाचारम्भणशब्दादिभ्यो वाक्येभ्योऽवगम्यते, १"वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" २"सदेवसोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति" ३ 'ऐतदात्म्यमिदं सर्व... तत्त्वमसि' इत्यादिभ्यः ॥१५॥
भावेचोपलब्धेः॥ घटादिकार्यभावे च तदेवेदं मृहव्यमित्युपलब्धेश्च कारणादनन्यत्कार्यम् ॥ १६॥
सत्त्वाचापरस्य । कार्यस्य कारणे सत्वाच्च तस्मादनन्यत्कार्यम् , घट. शरावादिकं पूर्वम्मृदेवासीदिति हि घटादिः मृदात्मनोपलभ्यते ॥ १७ ॥
असद्वयपदेशान्नेतिचेन्न धर्मान्तरेण वाक्यशेषायुक्तेश्शब्दान्तराच।। ४"इदं वा अग्रे नैव किश्चनासीत्" इति कार्यस्य तदानीमसन्वव्यपदेशात् कारणे कार्यमसदिति चेत्-न, स्थूलत्वविरोधिसूक्ष्मत्वरूपधर्मान्तरयोगादसत्त्वव्यप देशः कुतः! ४"तदसदेव सन्मनोऽकुरुत स्याम्" इति वाक्यशेषादवगम्यते; मनस्कारो हि विद्यमानस्यैवायुक्तिश्च-असद्वयपंदेशो धर्मान्तरयोगनिमित्तइति गमयति; पिण्डत्वघटत्वकपालत्वादिभिः परस्परविरोधिभिः भावरूपैर्धः घट प्राङ्गासीदिदानीमस्ति भविष्यतिचेति सदा विद्यमानस्यैव मृद्दव्यस्य हि असदादिः व्यपदेशः। तथा शब्दान्तरञ्च ५" तद्धेदं तीव्याकृतमासीत् " इत्यादि ॥ १८॥
पटवच्च ॥ तन्तव एव संयोगविशेषभाजः पट इति नामान्तरादिकं भजन्ते, तद्वत् ब्रह्मापि ॥ १९॥
यथाच प्राणादिः॥ यथा च वायुरेक एच वृत्तिविशेषैः प्राणापाना. दिनामानि भजते, तथा ब्रह्मापीति तदनन्यत्वं जगतः ॥ २० ॥
इति वेदान्तसारे आरम्भणाधिकरणम् ॥ ६ ॥
१. छा, ६-१-५ ॥-२. छा. ६.२.१॥-३. छा. ६-८-७॥-४. यजुषि. २. अष्ट. २-प्र. ८-अनु॥-५... ३.४.७॥
*1
For Private And Personal Use Only