________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये [अ. २. न्तराच - वाक्यशेषस्तावत् १“इदं वा अग्रे नैव किश्चनासीत्" इत्यत्र २"तदसदेव सन्मनोऽकुरुत स्यामिति" इतिः अनेन वाक्यशेषगतेन मनस्कारलिङ्गेनासच्छब्दार्थे तुच्छातिरिक्ते निश्चिते, तदैकार्थ्यात् ३“असदेवेदम्" इत्यादिष्वप्यसच्छब्दस्यायमेवार्थ इति निश्चीयते । युक्तेश्चासत्वस्य धर्मान्तरत्वमवगम्यते ; युक्तिर्हि सत्त्वासत्त्वे पदार्थधर्माववगमयति । मृद्दव्यस्य पृथुबुध्नोदराकारयोगो घटोऽस्तीति व्यवहारहेतुः; तस्यैव तद्विरोध्यवस्थान्तरयोगो घटो नास्तीति व्यवहारहेतुः । तत्र कपालाद्यवस्थायास्तद्विरोधित्वेन सैव घटावस्थस्य नास्तीति व्यवहारहेतुः । नच तद्व्यतिरिक्तो घटाभावो नाम कश्चिदुपलभ्यते; नच कल्प्यते, तावतैवाभावव्यवहारोपपत्तेः । तथा शब्दान्तराच्च पूर्वकाले धर्मान्तरयोग एवावगम्यते । शब्दान्तरश्च पूर्वोदाहतम् ३“सदेव सोम्येदमग्र आसीत्" इत्यादिकम् । तत्र हि ४"कुतस्तु खलु सोम्यैवं स्यात्" इति तुच्छत्वमाक्षिप्य ४"सत्त्वेव सोम्येदमग्र आसीत्" इति स्थापितम् । ५"तद्धदं तद्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत" इति सुस्पष्टमुक्तम् ॥ १८ ॥
___ इदानी कार्यस्य कारणादनन्यत्वे निदर्शनद्वयं द्वाभ्यां मूत्राभ्यां दर्शयति
पटवच्च । २।१।१९॥ यथा तन्तव एव व्यतिषङ्गविशेषभाजः पट इति नामरूपकार्यान्तरादिकं भजन्ते ; तद्ब्रह्मापि ॥ १९ ॥
यथाच प्राणादिः । २॥ १॥२०॥ यथा च वायुरेक एव शरीरे वृत्तिविशेषं भजमानः प्राणापाना
१. यजुषि. २-अष्ट. २-प्र. ९.अनु ॥–२, यजुषि. २-अष्ट. २ - प्र. ९ - अनु ।।३. डा. ६.२.१ ॥-४. छा. ६-२-२॥-५. वृ. ३-४-७ ॥
For Private And Personal Use Only