________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
पा. १.]
आरम्भणाधिकरणम्. संयुक्ताःन्धनाद्धि धूमो जायते । गन्धैक्याच्चाइँन्धनकार्यमेव धूमः। अतः कार्यभावेच तदेवेदमित्युपलब्धेर्बुद्धिशब्दान्तरादयोऽवस्थाभेदमावनिबन्धना इत्यवगम्यते । तस्मात्कारणादनन्यत्कार्यम् ॥ १६ ॥ इतश्च
सत्त्वाच्चापरस्य । २।१।१७॥ अपरस्य कार्यस्य कारणे सत्त्वाच्च कारणात्कार्यस्यानन्यत्वम् । लोकवेदयोर्हि कार्यमेव कारणतया व्यपदिश्यते ; यथा लोके 'सर्वमिदं घटशरावादिकं पूर्वाह्ने मृत्तिकैवासीत्' इति ; वेदेच १“सदेव सोम्येदमग्र आसीत्" इति ॥ १७ ॥ असद्व्यपदेशान्नेतिचेन्न धर्मान्तरेण वाक्यशेषा
द्युक्तेश्शब्दान्तराच्च । २॥ १॥ १८॥ यदुक्तं कारणे कार्यस्य सत्त्वं लोकवेदाभ्यामवगम्यते इति ; तद. युक्तम् ,असद्यपदेशात् १"असदेवेदमग्र आसीत्"२ "असदा इदमग्र आसीत" ३ "इदं वा अग्रे नैव किश्चनासीत्" इति ; लोकेच 'सर्वमिदं घटशरावादिकं पूर्वाह्ने नासीत्" इति। अतो यथोक्तं नोपपद्यत इति चेततन्न, धर्मान्तरेण तथा व्यपदेशात् । स खल्वसधपदेशस्तस्यैव का. यद्रव्यस्य पूर्वकाले धर्मान्तरेण-संस्थानान्तरेण न भवदभिप्रेतेन तुच्छत्वेन । सत्त्वासत्त्वे हि द्रव्यधर्मावित्युक्तम् । तत्र सत्त्वधर्माद्धर्मान्तरमसत्त्वम् । इदंशब्दनिर्दिष्टस्य जगतस्सत्त्वधर्मो नामरूपे ; असत्त्वधर्मस्तु तद्विरोधिनी सूक्ष्मावस्था । अतो जगतो नामरूपयुक्तस्य तद्विरोधि सूक्ष्मदशापत्तिरसत्वम् । कथमिदमवगम्यते-वाक्यशेषाद्युक्तेः शम्दा
१. छा. ६.२-१॥--२. शतपथब्राह्मणे.६-१-१॥-३. यजुषि.२-अष्ट.२-प्र. ९-अनु।
For Private And Personal Use Only