________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये
म. २. वोपपद्यते । व्यवहारयोग्यता हि सत्त्वम् । विरोधिव्यवहारयोग्यता तधवहारयोग्यस्यासत्त्वम् । द्रव्यमेव सदित्यभ्युपगमे क्रियादीनामसत्त्वप्रसङ्गः । क्रियादिषु काशकुशावलम्बनेऽपि सर्वकरूपा सत्ता दुरुपपादा। सदात्मनाच सर्वस्याभिन्नत्वे सर्वज्ञत्वेन सर्वस्वभावप्रतिसन्धानात्सर्वगुणदोषसङ्करप्रसङ्गश्च पूर्वमेवोक्तः । अतो यथोक्तप्रकारमेवानन्यत्वम् ॥ १५ ॥
अथोच्येत-एकस्यैवावस्थान्तरयोगेऽपि बुद्धिशब्दान्तरादयो बालत्वयुवत्वादिषु दृश्यन्ते, मृदारुहिरण्यादिषु द्रव्यान्तरत्वेऽपि दृश्यन्ते, तत्र मृद्धटादिषु कार्यकारणेषु बुद्धिशब्दान्तरादयोऽवस्थानिबन्धना एवेति कुतो निर्णीयते इति । तत्रोत्तरम्
भावे चोपलब्धः । २।१।१६॥
कुण्डलादिकार्यसद्भावे च कारणभूतहिरण्यस्योपलब्धेः-'इदं कुण्डलं हिरण्यम्' इति हिरण्यत्वेन प्रत्यभिज्ञानादित्यर्थः । नचैवं हिरण्यादिषु द्रव्यान्तरेषु मृदादय उपलभ्यन्ते । अतो बालयुवादिवत्कारणभूतमेव द्रव्यमवस्थान्तरापन्न कार्यमिति गीयते ; द्रव्यान्तरवादिनाऽप्यभ्युपेतेनावस्थान्तरयोगेन बुद्धिशब्दान्तरादिषूपपन्नेष्वनुपलब्धद्रव्यान्तरकल्पनानुपपत्तेश्च । नच जातिनिबन्धनेयं प्रत्यभिज्ञा, जात्याश्रयभूतद्रव्यान्तरानुपलब्धेः। एकमेव हेमजातीयं द्रव्यं कार्यकारणोभयावस्थं दृश्यते । नच द्रव्यभेदे समवायिकारणानुवृत्त्या कार्य प्रतिसन्धानमिति वक्तुं शक्यम् , द्रव्यान्तरत्वे सत्याश्रयानुवृत्तिमात्रेण तदाश्रितद्रव्यान्तरे प्रतिसन्धानानुपपत्तेः। गोमयादिकार्ये वृश्चिकादौ गोमयादिप्रतिसन्धानं न दृश्यत इति चेन्न, तत्राप्यायकारणभूतपृथिवीद्रव्यप्रत्यभिज्ञानात् । अग्निकार्ये धूमे अग्निप्रत्यभिज्ञानं न दृश्यत इति चेत्-भवतु , न तत्र प्रत्यभिज्ञानम् । तथापि न दोषः, अमेनिमित्तकारणमात्रत्वात् । अग्नि
For Private And Personal Use Only