________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
आरम्भणाधिकरणम्. क्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यमपासृजत्"इति । इतिहासपुराणान्यपि पुरुषोत्तममेव परमकारणमभिदधति १"नारायणो जगन्मूर्तिरनन्तात्मा सनातनः...स सिसृक्षुस्सहस्रांशादमृजत्पुरुषान् द्विधा" २"विष्णोस्सकाशादुद्भतं जगत्तत्रैव च स्थितम्" इत्यादिषु। नचेश्वरस्सन्मा. त्रमेवेति वक्तुं शक्यम् , तस्य तदंशत्वाभ्युपगमात्सविशेषत्वाच । नच तस्य ज्ञानानन्दाद्यनन्तकल्याणगुणयोगः कादाचित्क इति वक्तुं शक्यते, तेषां स्वाभाविकत्वेन सदातनत्वात्, ३"पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" ४“यस्सर्वज्ञस्सर्ववित्" इत्यादिभ्यः। ज्ञानानन्दादिशक्तियोग एवास्य स्वाभाविक इति मा वोचः, 'शक्तिः स्वाभाविकी, ज्ञानवलक्रिया च खाभाविकी'इति पृथनिर्देशाल्लक्षणामसङ्गाच्च । नच पाचकादिवत् 'सर्वज्ञः' इत्यादिषु शक्तिमात्रे कृत्प्रत्ययइति वक्तुं शक्यम्, कुत्पत्ययमात्रस्य शक्तावस्मरणात् , ५"शक्ती हस्तिकवाटयोः"इत्यादिषु केपाश्चिदेव कृत्प्रत्ययानां शक्तिविषयत्वस्मरणात् । पाचकादिषु त्वगत्या लक्षणा समाश्रीयते । किश्च ईश्वरस्य तदंशविशेषत्वात्तस्य चांशित्वे तरङ्गात्समुद्रस्येवांशादंशिनोऽधिकत्वात् , ६'तमीश्वराणां परमं महेश्वरम्" ३"न तत्समचाभ्यधिकश्च दृश्यते"इत्यादीनीश्वरविषयाणि परश्शतानि वासि बाध्येरन् । किञ्च सन्मात्रस्य सर्वात्मकत्वे अंशित्वे च ईश्वरस्य तदंशविशेषत्वात् तस्य सर्वात्मकत्वांशित्वोपदेशा व्याहन्येरन् । नहि मणिकात्मकत्वं तदंशत्वं वा घटशरावादेः। स्वांशेषु सर्वेषु सन्मात्रस्य पूर्णत्वेनेश्वरांशेऽपि तस्य पूर्णत्वात् तदात्मकानि तदंशाश्चेतराणि वस्तूनीति चेन्न, घटेऽपि सन्मात्रस्य पूर्णत्वादीश्वरस्यापि घटात्मकत्वतदंशत्वप्रसङ्गात् । नच सन्मात्रस्य 'घटोऽस्ति' 'पटोऽस्ति इति वस्तुधर्मतयाऽवगतस्य द्रव्यत्वं कारणत्वं
१. भारते. मोक्ष. ८.१२ ।।२. वि-पु. १-१-३१ ॥-३. श्वे. ६. ८ ॥४. मु. १.१.९॥-५. अष्टा. ३-२-५४ ॥-- ६. श्वे. ६-७ ॥
For Private And Personal Use Only