________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये
[म. २. वविशेष स्वप्रकाशमपि सुप्तात्मवदचिदविलक्षणमवस्थितम् ; सृष्टिवेलायां मृत्तिकाद्रव्यमिव घटशरावादिरूपम् , समुद्र इव च फेनतरणबुदुदादिरूपो भोक्तृभोग्यनियन्तृरूपेणांशत्रयावस्थमवतिष्ठते ; अतो भोक्तभोग्यनियन्तृत्वानि तत्प्रयुक्ताश्च गुणदोषाः शरावत्वघटत्वमणिकत्ववत्तद्गतकार्यभेदवञ्च व्यवतिष्ठन्ते ; भोक्तृभोग्यनियन्तॄणां सदात्मनैकत्वं च घटशरावमणिकादीनां मृदात्मनैकत्ववदुपपद्यते । अतस्सन्मानद्रव्यमेव सर्वावस्थावस्थितमिति ब्रह्मणोऽनन्यज्जगदातिष्ठन्ते ; तेषां सकलश्रुतिस्मृतीतिहासपुराणन्यायविरोधः; सर्वा हि श्रुतयः सस्मृतीतिहासपुराणास्सर्वेश्वरं सदैव सर्वज्ञ सर्वशक्तिं सत्यसङ्कल्पं निरवयं देशकालानवच्छिन्नानवधिकातिशयानन्द परमकारणं ब्रह्म प्रतिपादयन्तिान पुनरीश्वरादपि परमीश्वरांशि सन्मात्रम्। तथाहि १ "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" २"तदैक्षत बहु स्यां प्रजायेयेति"३"ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवक्षत्राणीन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति" 'भात्मा वा इदमेक एवाग्र आसीत् नान्यत्किञ्चन मिषत् स ऐक्षत लोकान्नु सृजा इति"५"एको ह वै नारायण आसीत् न ब्रह्मा नेशानो नेमे धावापृथिवी न नक्षत्राणि नापो नाग्निर्न सोमो न सूर्यः स एकाकी न रमेत तस्य ध्यानान्तस्थस्य"इत्यादिभिः परमकारणं सर्वेश्वरेश्वरो नारायण एवेत्यवगम्यते । सद्ब्रह्मात्मशब्दा हि तुल्यप्रकरणस्थास्ततुल्यप्रकरणस्थेन नारायणशब्देन विशेषितास्तमेवावगमयन्ति । ६"तमीश्वराणां परमं महेश्वरम्" ७“स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता न चाधिपः" इतीश्वरस्यैव कारणत्वं श्रूयते । स्मृतिरपि मानवी ८"ततस्वयम्भूर्भगवान्" इति प्रकृत्य “सोऽभिध्याय शरीरात्वात्सिमू
१. छा. ६.२.१ ॥२. छा. ६-२-३ ॥--३. पू. ३.४-११॥-४. ऐतरेय. १-१-१॥--५. महोप. १-१॥-६. श्वे. ६-७॥-७. थे. ६.९॥-८. मनु, १-६॥ --९. मनु. १.८॥
For Private And Personal Use Only