________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.
आरम्भणाधिकरणम्. घोऽन्यत्रात्मनस्सर्वे वेद""नेह नानास्ति किश्चना मृत्योस्स मृत्युमामोति य इह नानेव पश्यति" इति,तथा २“यत्र हि दैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत्" इत्यविदुषो द्वैतदर्शनं विदुपश्चाद्वैतदर्शनं प्रतिपादयदनन्यत्वमेव तात्त्विकमिति प्रतिपादयति । तदेवमारम्भणशब्दादिभ्यो जगतः परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वमुपपाद्यते। अनेदं तत्त्वं-चिदचिद्वस्तुशरीरतया तत्सकारं ब्रह्मैव सर्वदा सर्वशब्दाभिधेयम् । तत्कदाचित्स्वस्मात्स्वशरीरतयापि पृथग्व्यपदेशानहसूक्ष्मदशापन्नचिदचिद्वस्तुशरीरम् । तत्कारणावस्थं ब्रह्म । कदाचिश्च विभक्तनामरूपन्यवहाराईस्थूलदशापन्नचिदचिद्वस्तुशरीरम् । तच्च कार्यावस्थमिति कारणात्परस्माद्ब्रह्मणः कार्यरूपं जगदनन्यत् शरीरभूतचिदचिद्वस्तुनः शरीरिणो ब्रह्मणश्च कारणावस्थायां कार्यावस्थायांच श्रुतिशतसिद्धया स्वभावव्यवस्थया गुणदोषव्यवस्था च३ "नतु दृष्टान्तभावात्" इत्यत्रोक्ता ।।
ये तु कार्यकारणयोरनन्यत्वं कार्यस्य मिथ्यात्वाश्रयेण वर्णयन्ति, न तेषां कार्यकारणयोरनन्यत्वं सिध्यति, सत्यमिथ्यार्थयोरैक्यानुपपत्ते, तथासति ब्रह्मणो मिथ्यात्वं जगतस्सत्यत्वं वा स्यात् ॥
येच कार्यमपि पारमार्थिकमभ्युपयन्तएव जीवब्रह्मणोरौपाधिकमन्यत्वम् , स्वाभाविकं चानन्यत्वम् , अचिब्रह्मणोस्तु द्वयमपि स्वाभाविकमिति वदन्ति ; तेषामुपाधिब्रह्मव्यतिरिक्तवस्त्वन्तराभावानिरवयवस्याखण्डितस्य ब्रह्मण एवोपाधिसम्बन्धाद्ब्रह्मखरूपस्यैव हेयाकारपरिणामत् शक्तिपरिणामाभ्युपगमे शक्तिब्रह्मणोरनन्यत्वाच जीवब्रह्मणोः कर्मवश्यत्वापहतपाप्मत्वादिव्यवस्थावादिन्योऽचिह्मणोश्च परिणामवादिन्यश्श्रुतयो व्याकुलीभवेयुः ॥
ये पुनः निरस्तनिखिलभोक्तृत्वादिविकल्पविप्लवं सर्वशक्तियुक्तं सन्मात्रद्रव्यमेव कारणं ब्रह्म तच प्रलयवेलायां शान्ताशेषसुखदुःखानुभ
१. बू, ६-४-१९ ॥-२. बृ. ६-५-७ ॥-३. शारी. २-१-९॥
For Private And Personal Use Only