________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये [अ.२. स्वम्, पुनरपि तस्यैव विचित्रस्थिरत्रसरूपजगत्त्वेन बहुभवनसङ्कल्परूपेक्षणम् , यथासङ्कल्पं सर्गश्च कथमुपपद्यतइत्याशङ्कयाह १“सेयं देवतैक्षत हन्ताहमिमास्तिस्त्रो देवताः अनेन जीवेनात्मनानुपविश्य नामरूपे व्याकरवाणीति तासां त्रिवृतं त्रिवृतम्" इत्यादि । १"तिस्रो देवता "इति कृत्स्नमचिद्वस्तु निर्दिश्य खात्मकजीवानुप्रवेशेनैतद्विचित्रनामरूपभाकरवाणीत्युक्तम् । अनेन जीवेनात्मना-मदात्मकजीवेन आत्मतयाऽनुपविश्यैतद्विचिबनामरूपभाकरवाणीत्यर्थः । स्वात्मनो जीवस्य चात्मतयाऽनुमवेशकृतं नामरूपभाक्त्वमित्युक्तं भवति। २"तत्सृष्ट्वा तदेवानुपाविशत् तदनुपविश्य सच त्याचाभवत्" इति श्रुत्यन्तरेण स्पष्टं सजीवं जगत्परेण ब्रह्मणा आस्मतयाऽनुपविष्टमिति। तदेतत्कार्यावस्थस्य च कारणावस्थस्य च चिदचिद्वस्तुनः स्थूलस्य सूक्ष्मस्य च परब्रह्मशरीरत्वम् , परस्य च ब्रह्मण आत्मत्वमन्तर्यामिब्राह्मणादिषु सिद्धं स्मारितम् । अनेन पूर्वोक्ता शङ्का निरस्ता। अचिद्वस्तुनि सजीवे ब्रह्मण्यात्मतयाऽवस्थिते नामरूपव्याकरणवचनाचिदचिद्वस्तुशरीरकं ब्रह्मैव जगच्छन्दवाच्यमिति ३"सदेवेदमग्र एकमेवासीत्" इत्यादिसर्वमुपपन्नतरम् । शरीरभूतचिदचिद्वस्तुगतास्सर्वे विकाराथापुरुषार्थाश्चेति ब्रह्मणो निरवद्यत्वं कल्याणगुणाकरत्वं च सुस्थितम्। तदेतत् ४"अधिकं तु भेदनिर्देशात्" इत्यनन्तरमेव वक्ष्यति । तथा ५“ऐतदाम्यमिदं सर्वम्" इति कृत्स्नस्य चेतनाचेतनस्य ब्रह्मतादात्म्यमुपदिशति । तदेवच ५"तत्त्वमसि" इति निगमयति । तथा प्रकरणान्तरस्थेष्वपि वाक्येषु ६"सर्व खल्विदं ब्रह्म" ७'आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितम्"८"इदं सर्व यदयमात्मा"९"ब्रह्मैवेदं सर्वम्" १०"आत्मैवेदं सर्वम्" इत्यनन्यत्वं प्रतीयते,तथाऽन्यत्वं च निषिध्यते? १“सर्व तं परा दा
१. छा. ६.३.२ ॥–२. तै. आन. ६.२ ॥ ३. छा.६-२-१॥-४. शारो. २-१-२२॥–५. छा. ६-८-७ ॥-६. छा. ३-१४-१॥-७. वृ. ६-५-६ ॥८. स. ६.५-७ ॥-९.
॥---१०. छा. ७-२५-२॥-११. ब. ६.५-७॥
For Private And Personal Use Only