________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
आरम्भणाधिकरणम् मेव मृदि घटो नष्ट इति व्यवहारात्कारणादन्यत्कार्यमिति; तदुत्पत्तिविनाशादीनां कारणभूतस्यैव द्रव्यस्यावस्थाविशेषत्वाभ्युपगमादेव परिहतम्। तत्तदवस्थस्यैकस्यैव द्रव्यस्य ते ते शब्दास्तानि तानि च कार्याणीति यु. क्तम्। द्रव्यस्य तत्तदवस्थत्वं कारकव्यापारायत्तमिति तस्यार्थवत्त्वम्। अ. भिव्यक्त्यनुबन्धीनि चोद्यानि तस्या अनभ्युपगमादेव परिहतानि । उत्पत्यभ्युपगमेऽपि सत्कार्यवादो न विरुध्यते सत एवोत्पत्तेः। विप्रतिषिद्धमिदमभिधीयते,-पूर्वमेव सत्, तदुत्पद्यते च-इति । अज्ञातोत्पत्तिविनाशयाथात्म्यस्येदं चोयम् ; द्रव्यस्योत्तरोत्तरसंस्थानयोगः पूर्वपूर्वसंस्थानसंस्थितस्य विनाशः, स्वावस्थस्य तूत्पत्तिः । अतस्सर्वावस्थस्य द्रव्यस्य सवात्सत्कार्यवादो न विरुध्यते। संस्थानस्यासत उत्पत्तावसत्कार्यवादप्रस
इति चेत्-असत्कार्यवादिनोऽप्युत्पत्तेरनुत्पत्तिमत्त्चे सत्कार्यवादप्रसङ्गः। उत्पत्तिमत्त्वे चानवस्था। अस्माकं त्ववस्थानां पृथक्प्रतिपत्तिकार्ययोगान ईत्वादवस्थावत एवोत्पत्त्यादिकं सर्वमिति निरवद्यम्। कपालत्वचूर्णत्वपिण्डत्वावस्थामहाणेन घटत्वावस्थावदेकत्वावस्थाप्रहाणेन बहुत्वावस्था तपहाणेनैकत्वावस्था चेति न कश्चिद्विरोधः। तथा १“सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इति सदेवेदम् इदानी विभक्तनामरूपत्वेन नानारूपं जगत् अग्रे नामरूपविभागाभावेनैकमेवासीत् , सर्वशक्तित्वेनाधिष्ठात्रन्तरासहतया अद्वितीयं चेत्यनन्यत्वमेवोपपादितम्। तथा २"तदैक्षत बहु स्यां प्रजायेय" इति स्रक्ष्यमाणतेजःप्रभृतिविविधविचित्रस्थिरत्रसरूपजगत्त्वेनात्मनो बहुभवनं सङ्कल्प्य जगत्सर्गाभिधानात्कार्यभूतस्य जगतः परमकारणात्परस्माद्ब्रह्मणोऽनन्यत्वमवसीयते। सच्छब्दवाच्यस्य परस्य ब्रह्मणस्सवैज्ञस्य सत्यसङ्कल्पस्य निरवद्यस्यैव सदेवेदमिति निर्देशाहजगत्त्वम्, सच्छब्दवाच्यस्यैव जगतो नामरूपविभागाभावेनैकत्वमधिष्ठावन्तरनिरपेक्ष
१. स. १-२-१ ॥-२. छा. ६-२-३ ॥
+6
For Private And Personal Use Only