________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
श्रीशारीरकमीमांसाभाष्ये
[अ. २. परस्माद्ब्रह्मणोऽनन्यत्वमुपपादयन्ति । तथा हि-१"स्तब्धोऽस्युत तमादेशमसाक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्"इति कृत्स्नस्य जगतो ब्रह्मैककारणत्वम् , कारणात्कार्यस्यानन्यत्वं च हृदि निधाय कारणभूतब्रह्मविज्ञानेन कार्यभूतस्य सर्वस्य विज्ञाने प्रतिज्ञाते सति कुस्नस्य ब्रह्मैककारणनामजानता शिष्येण १"कथं नु भगवस्स आदेशः" इत्यन्यज्ञानेनान्यज्ञाततासम्भवं चोदितो जगतो ब्रह्मैककारणतामुपदेक्ष्यन् लौकिकपतीतिसिद्ध कारणात्कार्यस्यानन्यत्वं तावत् २“यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यात्" इति दर्शयति । यथैकमृपिण्डारब्धानां घटशरावादीनां तस्मादनतिरिक्तद्रव्यतया तज्ज्ञानेन ज्ञाततेत्यर्थः । अत्र काणादवादेन कारणात्कार्यस्य द्रव्यान्तरत्वमाशङ्कय लोकप्रतीत्यैव कारणात्कार्यस्यानन्यतामुपपादयतिर "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" इति । आरभ्यते आलभ्यते स्पृश्यते इत्यारम्भणम् ; ३"कृत्यल्युटो बहुलम्" इति कर्मणि ल्युट् । वाचा वाक्पूर्वकेण व्यवहारेण हेतुनेत्यर्थः । 'घटेनोदकमाहर' इत्यादिवाक्पूर्वको ख़ुदकाहरणादिव्यवहार :; तस्य व्यवहारस्य सिद्धये, तेनैव मृद्दव्ये. ण पृथुबुध्नोदरत्वादिलक्षणो विकारः-संस्थानविशेषः, तत्प्रयुक्तं च घटइत्यादिनामधेयम्, स्पृश्यते-उदकाहरणादिव्यवहारविशेषसिद्ध्यर्थ मृद्दव्यमेव संस्थानान्तरनामधेयान्तरभाग्भवति । अतो घटाद्यपि मृत्तिकेत्येव सत्यं-मृत्तिकाद्रव्यमित्येव सत्यम्-प्रमाणेनोपलभ्यत इत्यर्थः, नतु द्रव्यान्तरत्वेन। अतस्तस्यैव मृद्धिरण्यादे व्यस्य संस्थानान्तरभाक्त्वमात्रेण बुद्धिशब्दान्तरादय उपपद्यन्ते,यथैकस्यैव देवदत्तस्यावस्थाभेदैः बालो युवा स्थविरः' इति बुद्धिशब्दान्तरादयः कार्यविशेषाश्च दृश्यन्ते । यदुक्तं-सत्या१. छा. ६-१-३॥
३. अष्टा. ३-३-११३ ।। २. छा. ६-१-४॥
For Private And Personal Use Only