________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
आरम्भणाधिकरणम् दमात्रादपि सर्वप्रकारपरिच्छेदरहितत्वाभावादानन्त्यासिद्धिरिति चेत्तद्भवतोऽप्यविद्याविलक्षणत्वं ब्रह्मणोऽभ्युपयतस्समानम् । अतस्सतोऽविद्याविलक्षणत्वाभ्युपगमाद्ब्रह्मणोऽपि भिन्नत्वेन भेदप्रयुक्ता दोषास्सर्वे तवापि प्रसज्येरन् । यद्यविद्याविलक्षणत्वं नाभ्युपेयते; तीविद्यात्मकमेव ब्रह्म स्यात् । १“सत्यं ज्ञानमनन्तं ब्रह्म"इति लक्षणवाक्यमपि तत एवापार्थकं स्यात् । भेदतत्त्वानभ्युपगमे हि स्वपक्षपरपक्षसाधनदूषणादिविवेकाभावात्सर्वमसमञ्जसं स्यात् । आनन्त्यप्रसिद्धिश्च देशकालपरिच्छेदरहितत्वमात्रेण ; न वस्तुतोऽपि परिच्छेदरहितत्वेन, तथाविधस्य शशविषाणायमानस्यानुपलब्धेः। भेदवादिनस्तु सर्वचिदचिद्वस्तुशरीरत्वेन ब्रह्मणस्सर्वप्रकारत्वात् स्वतः परतोऽपि परिच्छेदो न विद्यते । तदेवं कारणाद्भिन्नस्य कार्यस्य सत्यत्वाद्ब्रह्मकार्य कृत्स्नं जगद्ब्रह्मणोऽन्यदेव ॥
... (सिद्धान्तः)----- इति प्राप्ते प्रचक्ष्महे-तदनन्यत्वमारम्भणशब्दादिभ्यः--तस्मात् परमकारणाद्ब्रह्मणः, अनन्यत्वं जगतः आरम्भणशब्दादिभ्यः तदुपपादयद्योऽवगम्यते । आरम्भणशन्द आदियेषां वाक्यानाम् , तान्यारम्भणशब्दादीनिर "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" ३"सदेव सोम्येदमग्न आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" "अनेन जीवेनाऽत्मनाऽनुपविश्य" ५"सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः....ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो" इत्येतानि; प्रकरणान्तरस्थान्यप्येवंजातीयकान्यत्राभिप्रेतानि । एतानि हि वाक्यानि चिदचिदात्मकस्य जगतः
१. ते. आन. १.१॥ २. छा. ६-१-४॥ ३. छा, ६-२-१॥
४. छा. ६-३-३ ॥ ५. छा. ६-८-६७ ॥
For Private And Personal Use Only