________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८
श्रीशारीरकमीमांसाभाष्ये
कव्यवहारो हि पारमार्थिको भ्रान्तिरूपश्च पारमार्थिकज्ञातृगतार्थविशेषसिद्धिरूपप्रकाशपूर्वकः; निर्विशेषसन्मात्रस्य तु पारमार्थिकस्यापारमार्थिकस्य च प्रतिभासादेर्हेतुत्वासम्भवात् लोकव्यवहारो न सम्भवति । यच्च - तैर्निरधिष्ठानभ्रमासम्भवात्सर्वाध्यासाधिष्ठानस्य सन्मात्रस्य पारमार्थिकत्वमुक्तम्, तदपि दोषदोषाश्रयत्वज्ञातृत्वज्ञानानामपारमार्थ्येऽपि भ्रमोपपत्तिवदधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्तेर्निरस्तम् । अथ-अधिष्ठानापारमार्थ्येsपि न कचिद्रमो दृष्ट इति सन्मात्रस्य पारमार्थिकत्वमवश्याश्रयणीयमिति मन्यसे, हन्त तर्हि दोषदोषाश्रयत्वज्ञातृत्वज्ञानानामपारमार्येऽपि न कचिमो दृष्ट इति दर्शनानुगुण्येन तेषामपि पारमार्थ्यममवश्याश्रयणीयमिति न कश्चिद्विशेषोऽन्यत्र तत्संरम्भात्। यत्तु भेदपक्षेऽप्यतीतकल्पानामानन्त्यात्सर्वेषामात्मनां मुक्तत्वेन बद्धासम्भवाद्बद्धमुक्त व्यवस्था न सम्भवतीति, तदात्मानन्त्येन परिहृतम् । यस्वात्मनां भिन्नत्वे माषसर्षपघटपटादिवत्सङ्ख्यावत्त्वमवर्जनीयमिति तत्र घटादीनामप्यनन्तत्वाद्दष्टान्तस्साध्यविकलस्स्यात्। दशघटास्सहस्रं माषा इति सङ्ख्यावत्त्वं दृश्यत इति चेत् सत्यं तत्तु न घटादिस्वरूपगतम्, अपितु देशकालाद्युपाधिमादिगतम्, तादृशं तु सङ्ख्यावत्वमात्मनामभ्युपगच्छामः । नच तावता सर्वमुक्तिप्रसङ्गः;आत्मस्वरूपानन्त्यात् । यत्तु - आत्मनां भिन्नत्वे घटादिवज्जडत्वानात्मत्वक्षयित्वप्रसङ्गः - इति ; तदयुक्तं, एकजातीयानां भेदस्य तज्जातीयानां जात्यन्तरत्वानापादकत्वात् । नहि घटानां भेदः तेषां पटत्वमापादयति । यत्तु - भिन्नत्वे वस्तुतः परिच्छेदादेशकालाभ्यामपि परिच्छेदो ब्रह्मणः प्रसज्यत इत्यनन्तत्वं ब्रह्मणो न सिध्यतीति; तदयुक्तं, वस्तुतः परिच्छिन्नानामपि देशकालपरिच्छेदस्य न्यूनाधिकभावेनानियमदर्शनात् ; देशकालसम्बन्धेयत्तायाः प्रमाणान्तरायत्तनिर्णयत्वेन ब्रह्मणस्सर्वदेशकाल - सम्बन्धस्यापि प्रमाणान्तरादापततो विरोधाभावात् । वस्तुतः परिच्छे
८
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[म. २.