________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
आरम्भणाधिकरणम् नि । नच निर्विशेषस्य चिन्मात्रस्याज्ञानसाक्षित्वमहङ्कारादिजगद्धमश्चोपपद्यते , साक्षित्वभ्रमादयोऽपि हि ज्ञातृविशेषगता दृष्टाः, न ज्ञप्तिमात्रगताः; नच तस्य प्रकाशत्वं स्वायत्तप्रकाशता वा सिध्यति प्रकाशो हि कस्यचित्पुरुषस्य कश्चनार्थविशेष प्रति सिद्धिरूपो दृश्यते, तत एव हि तस्य स्वयम्प्रकाशतोपपाद्यते भवद्भिरपि । नचातादृशस्य निर्विशेषस्य प्रकाशता सम्भवति । यः पुनः स्वगोष्ठीष्वपरमार्थादपि परमार्थकार्य दृश्यत इत्युद्धोषः, सोऽपि तानि कार्याणि सर्वाण्यवाधितकल्पानि व्यावहारिकसत्यानि वस्तुतस्त्वविद्यात्मकान्येवेति स्वाभ्युपगमादेव निरस्तः। अस्माभिरपि सर्वत्र परमार्थादेव कारणात्सर्वकार्योत्पत्तिमुपपादयद्भिः पूर्वमेव निरस्तः । नच त्वयैषामनुमानानां श्रुतिविरोधो वक्तुं शक्यते, श्रुतेरप्यविद्याकार्यत्वेनाविद्यात्मकत्वेन चोक्तदृष्टान्तेभ्यो विशेषाभावात्। यत्तु ब्रह्मणोऽपारमार्थिकज्ञानगम्यत्वेऽपि पश्चात्तनबाधादर्शनाद्ब्रह्म सत्यमेव इतिः तदसत्,दुष्टकारणजन्यज्ञानगम्यत्वे निश्चिते सति पश्चात्तनबाधादर्शनस्याकिश्चित्करत्वात् यथा शून्यमेव तत्त्वमिति वाक्यजन्यज्ञानस्य पश्चात्तनवाधादर्शनेऽपि दोषमूलत्वनिश्चयादेव तदर्थस्यासत्यत्वम्। किश्च १"नेह नानाऽस्ति किञ्चन" २ "विज्ञानमानन्दं ब्रह्म"इति विज्ञानमालातिरिक्तस्य कृत्स्नस्य वस्तुजातस्य निषेधकत्वेन सर्वस्मात्परत्वात्पश्चात्तनबाधादर्शनमुच्यते, शून्यमेव तत्त्वमिति तस्याप्यभावं वदतस्तस्मात्परत्वेन पश्चात्तनबाधो दृश्यते । सर्वशून्यत्वातिरेकिनिषेधासम्भवात्तस्यैव पश्चात्तनबाधादर्शनम् दोषमूलत्वं तु प्रत्यक्षादीनां वेदान्तजन्मनस्सर्वशून्यज्ञानस्याप्यविशिष्टम् । अतस्सर्व विज्ञानजातं पारमार्थिकज्ञातृगतम्, स्वयं च परमार्थभूतमर्थविशेषसिद्धिरूपम्। तत्र किश्चित् ज्ञानं दोषमूलम् दोषश्च परमार्थः किश्चिच्च निर्दोषं पारमार्थिकसामग्रीजन्यमिति यावन्नाभ्युपेयते,न तावत्सत्यमिथ्यार्थव्यवस्था, लोकव्यवहारश्च सेत्स्यति। लो
२, इ. ५.९-२८॥
१. कठ. २-४-११ ॥
For Private And Personal Use Only