________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४ श्रीशारीरकमीमांसाभाष्ये
[म. २. तत्वं न स्यात्। अनन्तत्वं नाम-परिच्छेदरहितत्वम्। भेदवादे च वस्त्वन्तराद्विलक्षणत्वेन ब्रह्मणो वस्तुतः परिच्छेदरहितत्वं न शक्यते वक्तुम् वस्त्वन्तरभावएव हि वस्तुतः परिच्छेदः वस्तुतः परिच्छिन्नस्य देशतः कालतश्चापरिच्छिन्नत्वं च न युज्यते वस्त्वन्तराद्विलक्षणत्वेन वस्तुतः परिच्छिनाएव घटादयो देशतः कालतश्च परिच्छिन्ना हि दृष्टाः; तथा सर्वे चेतनाः ब्रह्मच वस्तुतः परिच्छिन्नाः देशकालाभ्यामपि परिच्छिद्यन्ते । एवञ्च १“सत्यं ज्ञानमनन्तम्" इत्यादिभिस्सर्वप्रकारपरिच्छेदरहितत्वं वदद्भिर्विरोधः । उत्पत्तिविनाशादयश्च जीवानां ब्रह्मणश्च प्रसज्येरन्; कालपरिच्छेदएव उत्पत्तिविनाशभागित्वम्। अत एकस्यैवापरिच्छिन्नस्य ब्रह्मणोऽविद्याविजृम्भितं ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत् सुखदुःखप्रतिसन्धानव्यवस्थादयोऽपि स्वामव्यवस्थावदविद्यास्वाभाव्यादुपपयन्ते । तस्मादेकमेव नित्यमुक्तस्वप्रकाशस्वभावमनाद्यविद्यावशाज्जगदाकारेण विवर्ततइति परमार्थतो ब्रह्मव्यतिरिक्ताभावात्तदनन्यत्वं जगतः-इति ॥
अत्रोच्यते-निर्विशेषस्वप्रकाशमानं ब्रह्मानायविद्यातिरोहितस्वस्वरूपं स्वगतनानात्वं पश्यतीत्येतत् प्रकाशस्वरूपस्य निरंशस्य प्रकाशनिवृत्तिरूपतिरोधाने स्वरूपनाशप्रसङ्गेन तिरोधानासम्भवादिभ्यस्सकलप्रमाणविरुद्धं स्ववचनविरुद्धं चेति पूर्वमेवोक्तम्।यत्पुनरुक्तं-कारणव्यतिरिक्त कार्य युक्तिवाधितत्वेन शुक्तिकारजतादिवशमः-इति; तदयुक्तम्,युक्तेरभावात्। यत्त्वनुवर्तमानस्य कारणमात्रस्य सत्यत्वम् , व्यावर्तमानानां घटशरावादिकार्याणामसत्यत्वमितिः तदप्यन्यत्र दृष्टस्यान्यत्र व्यावर्तमानता न बाधिकेत्यादिभिः पूर्वमेव परिहृतम् । यच्चोपलभ्यमानत्वविनाशित्वाभ्यां सदसदनिर्वचनीयत्वेन कार्यस्य मृषात्वमितिः तदसत्, उपलब्धिविनाशयोगो हि न मिथ्यात्वं साधयति, किन्त्वनित्यत्वम् । यद्देशकालसम्बन्धि१. ते. आन. १-१ ॥
For Private And Personal Use Only