________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
भारम्भणाधिकरणम् कल्पनासम्भवश्व पूर्ववदेव द्रष्टव्यः । अतो ब्रह्मैवानाद्यविद्याशवलं स्वगतनानात्वं पश्यतीत्यद्वितीयत्वं ब्रह्मणोऽभ्युपयद्भिरभ्युपेत्यम् । यत्तु बन्धमोक्षव्यवस्था नोपपद्यत इति, न तद्ब्रह्माज्ञानवादिनश्वोयम्, एकस्यैव ब्रह्मणोऽज्ञस्य स्वाज्ञाननिवृत्त्या मोक्ष्यमाणत्वाबद्धमुक्तादिव्यवस्थाया एवाभावात् , व्यवह्रियमाणायाश्च बद्धमुक्तशिष्याचार्यादिव्यवस्थायाः काल्पनिकत्वात् , स्वमदर्शिनइव चैकस्यैवाविद्यया सर्वकल्पनोपपत्तेः; खमदृशा टेकेन दृष्टाश्शिष्याचार्यादयस्तदविद्याकल्पिताएव । अत एव बहविद्याकल्पनमपि न युक्तिमत् । पारमार्थिकी बन्धमोक्षव्यवस्था स्वपरव्यवस्था च जीवाज्ञानवादिनापि नाभ्युपेयते । अपारमार्थिकी त्वेकस्यैवाविद्ययोपपद्यते । प्रयोगश्च-बन्धमोक्षव्यवस्थाः खपरव्यवस्थाश्च खाविद्याकल्पिताः, अपारमार्थिकत्वात्, स्वमदृष्टव्यवस्थावदिति । शरीरान्तराण्यपि मयैवात्मवन्ति, शरीरत्वात्,एतच्छरीरवत्। शरीरान्तरण्यपि मदविद्याकल्पितानि, शरीरत्वात्, कार्यत्वात् , जडत्वात् , कल्पितत्वाद्वा, एतच्छरीरवत्। विवादाध्यासितं चेतनजातमहमेव, चेतनत्वात, यदनहम्, तदचेतनं दृष्टम्, यथा घटः । अतस्वपरविभागो बद्धमुक्तशिष्याचार्यादिव्यवस्थाश्चैकस्याविद्याकल्पिताः । द्वैतवादिनापि बद्धमुक्तव्यवस्था दुरुपपादा;अतीतानां कल्पानामानन्त्यादेकैकस्मिन्कल्पे एकैकमुक्तावपि सर्वेषां मोक्षसम्भवादमुक्तानुपपत्तेः। अनन्तत्वादात्मनाममुक्ताश्च सन्तीतिचेत्-किमिदमनन्तत्वम्? असङ्खयेयत्वमितिचेन्न, भूयस्त्वादल्पज्ञैरसङ्खयेयत्वेऽपीश्वरस्य सर्वज्ञस्य सङ्खयेया एव । तस्याप्यशक्यत्वे सर्वज्ञत्वं न स्यात् आत्मनां निस्सङ्ख्यत्वादीश्वरस्याविद्यमानसङ्ख्यावेदनाभावो नासावश्यमावहतीतिचेत्-भिन्नत्वे सङ्घयाविधुरत्वं नोपपद्यते । आत्मानस्सङ्ख्यावन्तः,भिन्नत्वात्, माषसर्षपघटपटादिवत् । भिन्नत्वे चास्मनां घटादिवजडस्वमनात्मत्वं क्षयित्वं च प्रसज्यते । ब्रह्मणवान
For Private And Personal Use Only