________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
श्री शारीरकमीमांसाभाष्ये
[अ. २.
तस्याः । अथ ब्रह्मणो माया तस्य जीवदर्शित्वं कुर्वती जीवमोहनस्य हेतुरिति मन्यसे ; तर्हि परिशुद्धस्याखण्डैकरसस्वप्रकाशस्य ब्रह्मणः परदर्शनं कुर्वती माया मायापरपर्याया अविद्यैव स्यात् । अथ मतम् - विपरीतदर्शन हेतुरविद्या, माया तु मिथ्याभूतं ब्रह्मव्यतिरिक्तं मिथ्यात्वेन दर्शयन्ती न ब्रह्मणो विपरीतदर्शनहेतुः । अतस्तस्या नाविद्यात्वमिति । नैवम् - चन्द्रैकत्वे ज्ञायमाने द्विचन्द्रदर्शन हेतोरप्यविद्यात्वात् । यदिच ब्रह्म मिथ्यात्वेनैव स्वव्यतिरिक्तं जानाति, न तर्हि तन्मोहयति । नह्यनुन्मतो मिथ्यात्वेन ज्ञातान्मोहयितुमीहते । अथापुरुषार्थापरमार्थदर्शन हेतुरविद्या, माया तु ब्रह्मणो नापुरुषार्थदर्शन हेतुः अतोऽस्या नाविद्यात्वमिति मतम् ; तन्न, द्विचन्द्रज्ञानस्य दुःखहेतुत्वाभावेना पुरुषार्थत्वाभावेऽपि तद्धेतुरविद्यैव, तन्निरसने च प्रयस्यन्ति; यदि च नापुरुषार्थदर्शनकरी माया, तर्ह्यनुच्छेद्यतया नित्या ब्रह्मस्वरूपानुबन्धिनी स्यात् । अस्तु को दोष इति चेत् - द्वैतदर्शनमेव दोषः । १" यत्र हि द्वैतमिव भवति.... यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्" इत्याद्यद्वैतश्रुतयः प्रकुप्येयुः । परमार्थविषया अद्वैतश्रुतयः, मायायास्त्वपरमार्थत्वादविरोध इति चेत् — अपरिच्छिन्नानन्दैकस्वरूपस्य ब्रह्मणोऽपरमार्थभूतमायादर्शनं तद्वत्ताचाविद्यामन्तरेण नोपपद्यते । किश्च अपरमार्थभूतया नित्यया मायया किं प्रयोजनं ब्रह्मणः । जीवमोहनमितिचेत् — अपुरुषार्थेन मोहनेन किं प्रयोजनम् । क्रीडेति चेत्-अपरिच्छिन्नानन्दस्य किं क्रीडया । परिपूर्णभोगानामेव क्रीडा पुरुषार्थत्वेन लोके दृष्टेति चेत्-नैवमिहोपपद्यते ; नापरमार्थभूतैः क्रीडोपकरणैरपरमार्थतया प्रतिभासमानैर्निष्पन्नयाऽपरमार्थभूतया क्रीडयाऽपरमार्थभूतेन च तत्प्रतिभासेनानुन्मत्तानां क्रीडारसो निष्पद्यते । मायाश्रयतयाऽभिमतब्रह्मव्यतिरेकेणाविद्याश्रयस्य जीवस्य
१. बृ. ४-४-१४ ॥
For Private And Personal Use Only