________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
आरम्भणाधिकरणम् ·
३१
श्रयाया अविद्यायास्तत्त्वज्ञानोदयान्नाशे सति जीवो नश्येद्वा, नवा, यदि नश्येत्, स्वरूपोच्छित्तिलक्षणो मोक्षस्स्यात् ; नो चेदविद्यानाशेsनिर्मोक्षः, ब्रह्मखरूपव्यतिरिक्तजीवत्वावस्थानात् । यच्चोक्तं-मणिकृपाणदर्पणादिषूपलभ्यमानमुखमलिनत्वविमलत्वादिवच्छुद्ध्यशुद्ध्यादि - व्यवस्थोपपत्तिः - इति; तत्वेदं विमर्शनीयम् - अल्पत्वमलिनत्वादय औपाधिका दोषाः कदा नश्येयुरिति, कृपाणाद्युपाध्यपगम इति चेत्-किंतदाऽल्पत्वाद्याश्रयः प्रतिबिम्बं तिष्ठति वा, नवा, तिष्ठति चेत्-तत्स्थानीयस्य जीवस्यापि स्थितत्वादनिर्मोक्षप्रसङ्गः नश्यति चेत् तद्वदेव जीवनाशात्स्वरूपोच्छित्तिलक्षणो मोक्षस्स्यात् । किञ्च यस्य ह्यपुरुषार्थरूप दोषप्रतिभासः, तस्य तदुच्छेदः पुरुषार्थः ; तत्र किमौपाधिकदोषप्रतिभासो विम्बस्थानीयस्य ब्रह्मणः, उत प्रतिबिम्बस्थानीयस्य जीवस्य, उतान्यस्य कस्यचित् ; आद्ययोः कल्पयोर्दृष्टान्तोऽयं न सङ्गच्छते, मुखस्य मुखप्रतिविम्बस्य चाल्पत्वादिदोषप्रतिभास शून्यत्वात् ; नहि मुखं तत्प्रतिबिम्बं वा चेतयते; ब्रह्मणो दोषप्रतिभासे ब्रह्माविद्याप्रसङ्गश्च । तृतीयोऽपि कल्पो न कल्पते, जीवब्रह्मव्यतिरिक्तस्य द्रष्टरभावात् । किञ्च अविद्या कल्प्यस्य जीवस्य कल्पकः क इति निरूपणीयम्, न तावदविद्या, अचेतनत्वात् नापि जीवः, आत्माश्रयदोषप्रसङ्गात्, शुक्तिकारजतादिवदविद्या कल्प्यत्वाच्च जीवभावस्य ; ब्रह्मैव कल्पकमिति चेत् — ब्रह्माज्ञानमेवायातम् । किञ्च ब्रह्माज्ञानानभ्युपगमे किं ब्रह्म जीवान्पश्यति वा न वा, न पश्यति चेत्- ईक्षापूर्विका विचित्रसृष्टिनीमरूपव्याकरणमित्यादि ब्रह्मणो न स्यात् । अथ पश्यति, अखण्डैकरसं ब्रह्म नाविद्यामन्तरेण जीवान्पश्यतीति ब्रह्माज्ञानप्रसङ्गः । अतएव मायाविद्याविभागवादोऽपि निरस्तः । अज्ञानमन्तरेण हि मायिनोऽपि ब्रह्मणो जीवदर्शित्वं न स्यात् । नच मायावी परानदृष्ट्वा मोहयितुमलम् । नापि माया मायाविनो दर्शनसाधनम्, दृष्टेषु परेषु तन्मोहन साधनमात्वत्वा
,
For Private And Personal Use Only