________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
श्रीशारीरकमीमांसाभाष्ये [अ. २. स्यामुक्तत्वादविद्या तिष्ठतीति चेत्त कस्याप्यमुक्तिस्स्यात् , अविद्याया अविनष्टत्वात् । प्रतिजीवमविद्याभेदः कल्प्यते, तत्र यस्याविद्या वि नष्टा, स मोक्ष्यते, यस्य त्वविनष्टा, स भन्त्स्यतइति चेत् तन्न, प्रतिजीवमिति जीवभेदमाश्रित्य ब्रूषे, स जीवभेदः किं स्वाभाविकः, उताविद्याकल्पितः ; न तावत्स्वाभाविकः, अनभ्युपगमात् ; भेदसिद्ध्यर्थस्य चाविद्याकल्पनस्य व्यर्थत्वात् । अथाविद्याकल्पितः, तत्रेयं जीवभेदकल्पिकाऽविद्या किं ब्रह्मणः, उत जीवानाम् । ब्रह्मणइति चेत्-आगतोऽसि मदीयं मार्गम् । अथ जीवानाम् , किमस्या जीवभेदकृप्तिसिद्ध्यथतां विस्मरसि । अथ प्रतिजीवं बद्धमुक्तव्यवस्थासिद्ध्यर्थ या अविद्याः कल्प्यन्ते, ताभिरेव जीवभेदोऽपीति मनुषे, जीवभेदसिद्धौ तास्सिद्ध्यन्ति, तासु सिद्धासु जीवभेदसिद्धिरितीतरेतराश्रयत्वम् । नचात बीजाङ्कुरन्यायस्सिध्यति बीजाकरेषु ह्यन्यदन्यद्वीजमन्यस्यान्यस्याङ्करस्योत्पादकम् , इह तु याभिरविद्याभिर्ये जीवाः कल्प्यन्ते, तानेवाश्रित्य तासां सिद्धिरित्यशकनीयता । अथ बीजाङ्करन्यायेन पूर्वपूर्वजीवाश्रयाभिरविद्याभिरुत्तरोत्तरजीवकल्पनां मन्यसे, तथा सति जीवानां भङ्गरत्वमकृताभ्यागमकृतविप्रणाशादिप्रसङ्गश्च । अतएव ब्रह्मणः पूर्वपूर्वजीवाश्रयाभिरविद्याभिरुत्तरोत्तरजीवभावकल्पनमित्यपि निरस्तम् । अविद्याप्रवाहेऽभ्युपगम्यमाने तत्कल्पितजीवभावस्यापि तद्वत्प्रवाहानादिता स्यात् । न ध्रुवरूपता, आमोक्षाच्च जीवस्य ध्रुवत्वमिष्टं न सिध्येत् । यच्चोक्तमविद्याया अवस्तुरूपत्वेनानुपपनतैकवेषाया नेतरेतराश्रयत्वादयो वस्तुदोषा अनवकृप्तिमावहन्तीति, तथा सति मुक्तान् परश्च ब्रह्माश्रयेदविद्याः शुद्धविघाखरूपत्वादशुद्धिरूपा न तत्र प्रसजतीति चेत्-किमुपपत्त्यनुवर्तिन्यविद्या । एवं तर्युक्ताभिरुपपत्तिभिर्जीवानपि नाश्रयेत् । किञ्च जीवा
१. सिदिरित्याशङ्कनीयता. पा॥
For Private And Personal Use Only