SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] आरम्भणाधिकरणम्. लत्वादिवत्तत्तदुपाधिवशात्१व्यवस्थाप्यन्ते। ननु२ "अनेन जीवेनाऽत्मनाऽनुपविश्य" इत्यादिश्रुतेने जीवा ब्रह्मणो भिद्यन्त इत्युक्तम् ; सत्यम् , परमार्थतः; काल्पनिकं तु भेदमाश्रित्येयं व्यवस्थोच्यते । कस्य पुनः कल्पना; न तावद्ब्रह्मणः, तस्य परिशुद्धज्ञानात्मनः कल्पनाशून्यत्वात् । नापि जीवानाम्, इतरेतराश्रयत्वप्रसङ्गात्-कल्पनाधीनो हि जीवभावः, जीवाश्रया च कल्पना-इति । नैतदेवम् , अविद्याजीवभावयो/जाकरन्यायेनानादित्वात् । किञ्च प्रासादनिगरणादिवदनुपपन्नतैकवेषायामवस्तुभूतायामविद्यायां नेतरेतराश्रयत्वादयो वस्तुदोषा अनवकृप्तिमावहन्ति । वस्तुतो ब्रह्माव्यतिरिक्तानां जीवानां स्वतो विशुद्धत्वेऽपि कुपाणादिगतमुखप्रतिबिम्बश्यामतादिवदौपाधिकाशुद्धिसम्भवादविद्याश्रयत्वोपपत्तेः काल्पनिकत्वोपपत्तिः । प्रतिविम्बगतश्यामतादिवजीवगताशुद्धिरपि भ्रान्तिरेव, अन्यथाऽनिर्मोक्षप्रसङ्गात् । जीवानां भ्रमस्य प्रवाहानादित्वान्न तद्धेतुरन्वेषणीयः-इति ॥ तदेतदविदिताद्वैतयाथात्म्यानां भेदवादश्रद्धालुजनसबहुमानावलोकनलिप्साविजृम्भितम् । तथाहि-जीवस्याकल्पितस्वाभाविकरूपेणाविद्याश्रयत्वे ब्रह्मणएवाविद्याश्रयत्वमुक्तं स्यात् । तदतिरिक्तेन तस्मिन्कल्पितेनाकारेणाविद्याश्रयत्वे जडस्याविद्याश्रयत्वमुक्तं स्यात् । न खल्वद्वैतवादिनस्तदुभयव्यतिरिक्तमाकारमभ्युपगच्छन्ति । कल्पिताकारविशिटेन स्वरूपेणैवाविद्याश्रयत्वमितिचेत् तन्न, स्वरूपस्याखण्डैकरसस्याविद्यामन्तरेण विशिष्टरूपत्वासिद्धेः, अविद्याश्रयाकार एवहि निरूप्यते। किश्च बन्धमोक्षादिव्यवस्थासिद्ध्यर्थ हि २जीवाज्ञानवादाश्रयणम् , सा तु व्यवस्था जीवाज्ञानपक्षेऽपि न सिध्यति । अविद्याविनाश एव हि मोक्षः । तत्रैकस्मिन्मुक्ते अविद्याविनाशादितरेऽपि विमुच्येरन् । अन्य१. व्यवस्थास्यन्ते. पा ॥ ३. जीवाशानवादसमाश्रयणम्. पा॥ २. छा. ६-३-२ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy