________________
Shri Mahavir Jain Aradhana Kendra
__www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ श्रीशारीरकमीमांसाभाष्ये
[अ. २. मपि घटरुचकादिकार्यवन्मिथ्याभूतम् , ब्रह्मकार्यत्वाविशेषात् । १" ऐतदात्म्यमिदं सर्व तत्सत्यम्" २ " नेह नानास्ति किश्चन ३मृत्योस्स मृत्यु- . मामोति य इह नानेव पश्यति" ४“यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्नत्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्" ५ "इन्द्रो मायाभिः पुरुरूप ईयते"इत्येवमादिभिश्श्रुतिभिश्च ब्रह्मव्यतिरिक्तस्य मिथ्यात्वमवगम्यते । नचागमावगतार्थस्य प्रत्यक्षविरोधश्शङ्कनीयः; यथोक्तप्रकारेण कार्यस्य सर्वस्य मिथ्यात्वावगमात्, प्रत्यक्षस्य सन्मानविषयत्वाच्च, विरोधे सत्यप्यसम्भावितदोषस्य चरमभाविनस्वरूपसद्भावादौ प्रत्यक्षाउपेक्षत्वेऽपि प्रमितौ निराकास्य निरवकाशस्य शास्त्रस्य बलीयस्त्वात्। अतः कारणभूताब्रह्मणोऽन्यत्सर्व मिथ्या । नच प्रपञ्चमिथ्यात्वेन जीवमिथ्यात्वमाशङ्कनीयम् , ब्रह्मण एव जीवभावात् । ब्रह्मैव हि सर्वशरीरेषु जीवभावमनुभवति-६"अनेन जीवेनाऽत्मनाऽनुप्रविश्य" "एको देवस्सर्वभूतेषु गूढः"८"एको देवो बहुधा निविष्ट:"९"एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते"१० "नान्योऽतोऽस्ति द्रष्टा"इत्येवमादिभ्यः। नन्वेकमेव ब्रह्म सर्वशरीरेषु जीवभावमनुभवति चेत्-‘पादे मे वेदना' 'शिरसि मे सुखम्' इतिवत्सर्वशरीरेषु सुखदुःखप्रतिसन्धानं स्यात् जीवेश्वरबद्धमुक्तशिष्याचार्यज्ञत्वाज्ञत्वादिव्यवस्था च न स्यात् । अत्र केचिदद्वितीयत्वं ब्रह्मणोऽभ्युपयन्त एवैनं समादधते-एकस्यैव ब्रह्मणः प्रतिबिम्बभूतानां जीवानां सुखित्वदुःखित्वादय एकस्यैव मुखस्य प्रतिबिम्बानां मणिकृपाणदर्पणादिष्पलभ्यमानानामल्पत्वमहत्त्वमलिनत्वविम
२. कठ. ४-११॥
१. छा. ६-८-७॥ ३. कठ. ४-१०॥ ४. बृ. ४-४-१४ ॥ ५. बृ. ४.५-१९॥ ६. छा. ६-३-२ ॥
७. श्वे. ६-११ ॥ ८.यजु. आरण. ३-प्रश्न. १२-अनु. १-५॥ ९. कठ. ३.१२ ॥ १.. बृ. ५-७.२३ ॥
For Private And Personal Use Only