________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७
पा. १.]
आरम्भणाधिकरणम्. चनीयमिति गम्यते । अनिर्वचनीयं च शुक्तिकारजतादिवन्मृषैव । तस्य चानिर्वचनीयत्वं प्रतीतिबाधाभ्यां सिद्धम् । किश्च कार्यमुत्पादयन्मृदादि कारणद्रव्यं किमविकृतमेव कार्यमुत्पादयति, उत कञ्चन विशेषमापन्नम् । न तावदविकृतमुत्पादयति, सर्वदोत्पादकत्वप्रसङ्गात् । नापि विशेषान्तरमापन्नम् , विशेषान्तरापत्तेरपि विशेषान्तरापत्तिपूर्वकत्वेन भवितव्यम् , तस्या अपि तथेत्यनवस्थानात् । अविकृतमेव देशकालनिमित्तविशेषसम्बद्धं कार्यमुत्पादयतीतिचेन्न। देशादिविशेषसम्बन्धोऽपि ह्यविकृतस्य विशेषान्तरमापन्नस्य च पूर्ववन्न सम्भवति । नच वाच्यं मृ
सुवर्णदुग्धादिभ्यो घटरुचकदध्यादीनामुत्पत्तिदृश्यते ; शुक्तिकारजतादिवद्देशकालादिप्रतिपन्नोपाधौ बाधश्च न दृश्यते, अतः प्रतीतिशरणानां कारणात्कार्योत्पत्तिरवश्याश्रयणीयेति ; विकल्पासहत्वात्-किं हेमादिमात्रमेव स्वस्तिकादेरारम्भकम् , उत रुचकादि, अथ रुचकाद्याश्रयो हेमादिः; न तावद्धेमादिमात्रमारम्भकम् ; हेमव्यतिरिक्तस्य कार्यस्याभावात् , स्वात्मानं प्रत्यात्मन आरम्भकत्वासम्भवाच । हेमव्यतिरिक्तं खस्तिकं दृश्यत इति चेत्-न हेमव्यतिरिक्तं तत् , हेमप्रत्यभिज्ञानात्तदतिरिक्तवस्त्वन्तरानुपलब्धेश्च । बुद्धिशब्दान्तरादिभिर्वस्त्वन्तरत्वं साधितमितिचेन्न,अनिरूपितवस्त्ववलम्बनानां बुद्धिशब्दान्तरादीनां शुक्तिकारजतबुद्धिशब्दादिवद्धान्तिमूलत्वेन वस्त्वन्तरसद्भावस्यासाधकत्वात् । नापि रुचकादि स्वस्तिकादेरारम्भकम् , स्वस्तिके हि रुचकं पट इव तन्तवो भवतापि नोपलभ्यते । नापि रुचकाश्रयभूतं हेम, रुचकाश्रयाकारेण हेम्नस्स्वस्तिकेऽनुपलब्धेः; अतो मृदादिकारणातिरिक्तस्य कार्यस्यासत्यत्वदर्शनाद्ब्रह्मव्यतिरिक्तं कृत्स्नं जगत्कार्यत्वेन मिथ्याभूतम् । तदिदं ब्रह्मव्यतिरिक्तमिथ्यात्वसुखप्रतिपत्तये काल्पनिकमृदादिसत्यत्वमाश्रित्य कार्यस्यासत्यत्वं प्रतिपादितम्। परमार्थतस्तु मृत्सुवर्णादिकारण
For Private And Personal Use Only