________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीशारीरकमीमांसाभाष्ये
२६
[अ. २.
"
नहि घटार्थमारोपितः प्रदीपः करकादीन्नाभिव्यनक्ति । अतोऽसतः कार्यस्योत्पत्तिहेतुत्वेनैव कारकव्यापारार्थवत्त्वम्, अतश्च सत्कार्यवादासिद्धिः । न च नियतकारणोपादानं सत एव कार्यत्वं साधयति, कारणशक्तिनियमादेव तदुपपत्तेः । नन्वसत्कार्यवादिनोऽपि कारकन्यापारो नोपपद्यते ; प्रागुत्पत्तेः कार्यस्यासत्वात् कार्यादन्यत्र कारकव्यापारेण भवितव्यम् ; तत्रान्यत्वाविशेषात्तन्तुगतकारकव्यापारेण घटोत्पत्तिरपि प्रसज्यते ; नैवम् यत्कार्योत्पादनशक्तं यत्कारणम् दद्गतका - रकव्यापारेण तत्कार्योत्पत्तिसिद्धेः । अत्राहुः –— कारणादनन्यत्कार्यम्; नहि परमार्थतः कारणव्यतिरिक्तं कार्यं नाम वस्त्वस्ति, अविद्यानिबन्धनत्वात्सकलकार्यतद्व्यवहारयोः ! अतो यथा कारणभूतान्मृद्दव्याद्घटादिषु विकारेषूपलभ्यमानाव्यतिरिक्तं घटशरावादिकार्य व्यवहारमात्रालम्बनं मिथ्या ; कारणभूतं मृद्दव्यमेव सत्यम् ; तथा निर्विशेषसन्मात्रात्कारणभूताद्ब्रह्मणोऽन्योऽहङ्कारादिव्यवहारालम्बनः कृत्स्नः प्रपञ्चो मिध्या ; कारणभूतसन्मात्र ब्रह्मैव सत्यम् । तस्मात्कारणव्यतिरिक्तं काये नास्तीति कारणादनन्यत्कार्यम् । नच वाच्यं शुक्तिकारजतादीना - ra घटादिकार्याणामसत्यत्वाप्रसिद्धेर्दृष्टान्तानुपपत्तिरिति ; यतस्तत्रापि युक्त्या मृद्दव्यमात्रमेव सत्यतया व्यवस्थाप्यते ; तदतिरिक्तं तु युक्तया बाद्ध्यते । का पुनरत्र युक्तिः ?, मृद्दव्यमावस्यानुवर्तमानत्वम्, तदतिरिक्तस्य च व्यावर्तमानत्वम् । रज्जुसर्पादिषु ह्यनुवर्तमानस्याधिष्ठानभूतस्य रज्ज्वादेस्सत्यता, व्यावर्तमानस्य च सर्पभूदलनाम्बुधारादेरसत्यता दृष्टा, तथाऽनुवर्तमानमधिष्ठानभूतं मृद्दव्यमेव सत्यम्, व्यावर्तमानास्तु घटशरावादयोऽसत्यभूताः । किञ्च सत आत्मनो विनाशाभावादसतश्च शशविषाणादेरुपलब्ध्यभावादुपलब्धिविनाशयोगि कार्यं सदसद्भयामनिर्व
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only