________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
आरम्भणाधिकरणम् तया यदुपलब्धम्,तद्देशकालसम्बन्धितया बाधितत्वमेव हि तस्य मिथ्यात्वे हेतुः; देशान्तरकालान्तरसम्बन्धितयोपलब्धस्यान्यदेशकालसम्बन्धित्वेन बाधितत्वं देशान्तरकालान्तराव्याप्तिमात्रं साधयति,न तु मिथ्यात्वम्। प्रतिप्रयोगश्च-घटादि कार्य सत्यम् देशकालादिप्रतिपन्नोपाधाववाधितत्वात्, आत्मवत् । यच्चोक्तं कारणस्वरूपादविकृताद्विकृताच्च कार्योत्पत्तिर्न सम्भवति-इति; तदसत्, देशकालादिसहकारिसमवहितात्कारणात्कार्योत्पत्तिसम्भवात्। तत्समवधानं च विकृतस्याविकृतस्य च न सम्भवति-इति यदुक्तम् तदयुक्तम्,पूर्वमविकृतस्यैव कालादिसमवधानसम्भवात् । अविकृतत्वाविशेषात् पूर्वमपि देशकालादिसमवधानं प्रसज्यत इतिचेन्न, देशकालादिसमवधानस्य कारणान्तरायत्तस्यैतदायत्तत्वाभावात् । अतो देशकालादिसमवधानरूपविशेषमापन्नं कारणं कार्यमुत्पादयतीति न किञ्चिदवहीनम्। कारणस्य च कार्य प्रत्यारम्भकत्वमबाधितं दृश्यमानं न केनापि प्रकारेणापह्नोतुं शक्यते। यत्तु-हेमादिमात्रस्य, रुचकादिकार्यस्यैतदाश्रयस्य वा हेमादेरारम्भकत्वं न सम्भवति-इति; तदयुक्तम् , हेमादिमात्रस्यैव यथोक्तपरिकरयुक्तस्यारम्भकत्वसम्भवात् । न चारम्भकहेमव्यतिरिक्त कार्य न दृश्यत इति वक्तुं शक्यम्; हेमातिरिक्तस्य स्वस्तिकस्य दर्शनात् , बुद्धिशब्दान्तरादिभिर्वस्त्वन्तरस्य साधितत्वाच्च । नचायं शुक्तिकारजतादिवशमः, उत्पत्तिविनाशयोरन्तराल उपलभ्यमानस्य तदेशकालसम्बन्धितया बाधादर्शनात् । नचास्या उपलब्धेर्वाधिका काचिदपि युक्तिदृश्यते । प्रागनुपलब्धस्वस्तिकोपलब्धिवेलायामपि हेमप्रत्यभिज्ञा स्वस्तिकाश्रयतया हेम्नोऽप्यनुवृत्तेरविरुद्धा । श्रुतिभिस्तु प्रपञ्चमिथ्यात्वसाधनं पूर्वमेव निरस्तम्। यच्चान्यदत्र प्रत्यक्षविरोधादि प्रतिवक्तव्यम्, तदपि सर्व पूर्वमेव मुष्ठक्तम् । यच्चोक्तम्-एकेनात्मना सर्वाणि शरीराण्यात्मवन्ति-इति तदसत, एकस्यैव सर्वशरीरम
For Private And Personal Use Only