SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ पा. ३] अंशाधिकरणम् प्रत्यङात्माहमर्थः प्रमितिपरवतां कर्तृतादिश्च तस्मिन् खेच्छापूर्वप्रवृत्तेरयमचिदधिकस्तावदीशानतुल्यः । ईशस्तु खेच्छयैव प्रयतत इति तन्निनमन्यत्समस्तं सारथ्यादिक्रमेण प्रतिनियतगतिस्स्यात् त्रयाणां प्रवृत्तिः ॥ २१ कर्तृत्वं स्यात् कदाचित् करणवति परप्रेरणानिय॑पेक्षभोचेत् तन्निग्रहायं कथमिति यदि न खेष्टपक्षेऽपि साम्यात् । खेनापथ्यप्रवृत्तनहि पुनरपि तत् कारयेयुर्दयाःस्तश्चेत्तस्य स्वाभावादितरदपि न किं निष्फलोऽधीतभङ्गः ॥२२ क्षेत्रज्ञानां समानां विषमयतनता तादृशादृष्टभेदामादृष्ट त्वन्यदिष्टं नियमनभिदया शासितस्तत्र भाव्यः। साक्षित्वाद्यश्च नेतुस्समनिगममितं प्रेरकत्वन रुन्धे भाष्यादिग्रन्थलेशोऽप्यवहितमनसामैदमर्थ्य भजेत ॥ कर्ता देवः फलानां न तु करणभृतः प्रेरकश्चेत्ययुक्तं सर्वश्रुत्यादिकोपान भवति न फलं कर्मणः पापचर्या । कर्माधीनं तु चिन्ताधपि हि भवभृतो भाषितं भाष्यकारैजन्तूनान्देवतानामपि करणगणाधिष्ठितं वक्ष्यतीत्थम् ॥ २४ ( अथांशाधिकरणम् ॥ ७ ॥ जीवादत्यन्तभिन्नः पर इति बहुधा व्याहरत् सूत्रकारो भेदाभेदश्रुतीनां घटकनिगमतश्शात्रवं च व्यपोढम् । उक्ताक्षेपे समाधावपि न समधिको हेतुरत्रास्ति सत्यं पादांशायुक्तिमुह्यद्बहुकुमतिमतक्षिप्तये त्वंशचिन्ता ॥ अंशत्वं रामकृष्णप्रभृतिषु घटतां विग्रहांशाधिकाराज्जीवे ब्रह्मांशतोक्तिन हि निरवयवं ब्रह्म वक्तुर्घटेत । *65 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy