SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] जगध्यापारवर्जाधिकरणम्. ४८९ च श्रुतिः। स्मृतिरपि "मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्। हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते"इति,२"विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इति च । तथा मुक्तस्य सत्यसङ्कल्पत्वादिपूर्वकस्याप्यानन्दस्य परमपुरुष एव हेतुरिति श्रुतिस्मृती दर्शयतः ३" एष ह्येवानन्दयाति" ४"मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान समतीत्यैतान् ब्रह्मभूयाय कल्पते। ब्रह्मणो हि प्रतिष्ठाऽहमगृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्यच" इति । यद्यप्यपहतपाप्मत्वादिस्सत्यसङ्कल्पत्वपर्यन्तो गुणगणः प्रत्यगात्मनः स्वाभाविक एवाविभूतः, तथाऽपि तस्य तथाविधत्वमेव परमपुरुषायत्तम् तस्य नित्यस्थितिश्च तदायत्ताः परमपुरुषस्यैतन्नित्यतायाः नित्येष्टत्वानित्यतया वर्तत इति न कश्चिद्विरोधः । एवमेव परमपुरुषभोगोपकरणस्य लीलोपकरणस्य च नित्यतया शास्त्रावगतस्य परमपुरुषस्य नित्येष्टत्वादेव तथाऽवस्थानमस्तीति शास्त्रादवगम्यते । अतो मुक्तस्य सत्यसङ्कल्पत्वं परमपुरुषसाम्यं च जगद्व्यापारवजेम् ॥ २० ॥ भोगमात्रसाम्यलिङ्गाच्च।४।४।२१॥ ब्रह्मयाथात्म्यानुभवरूपभोगमाते मुक्तस्य ब्रह्मसाम्यप्रतिपादनाच लिहाजगद्व्यापारवर्जमित्यवगम्णते ५" सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" इति । अतो मुक्तस्य परमपुरुषसाम्यं सत्यसङ्कल्पत्वं च परमपुरुषासाधारणनिखिलजगनियमनश्रुत्यानुगुण्येन वर्णनीयमिति जगद्व्यापारवर्जमेव मुक्तैश्चर्यम् ॥ २१ ॥ ___ यदि परमपुरुषायत्तं मुक्तैश्चर्यम् , तर्हि तस्य स्वतन्त्रत्वेन तत्सङ्कल्पान्मुक्तस्य पुनरावृत्तिहसम्भवाशङ्केत्यत्राह १. गी. ९ १० ।-२. गी. १०-४२ ॥३. तै. आन. ७-२१॥ --४. नी. १४.२६,२७॥-५ ते. आन. १-२ ॥-६. सम्भावनाशके. पा ॥ •62 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy