________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसामाज्ये
[अ. ४. अनारत्तिश्शब्दादनावृत्तिश्शब्दात्।४।४।२२॥
यथा निखिलहेयप्रत्यनीककल्याणकतानो जगजन्मादिकारणं समस्तवस्तुविलक्षणस्सर्वज्ञस्सत्यसङ्कल्पः आश्रितवात्सल्यैकजलधिः परमकारुणिको निरस्तसमाभ्यधिकसम्भावनः परब्रह्माभिधानः परमपुरुपोऽस्तीति शब्दादवगम्यते; एवमहरहरनुष्ठीयमानवर्णाश्रमधर्मानुगृहीततदुपासनरूपतत्समाराधनप्रीतः उपासीनाननादिकालप्रवृत्तानन्तदुस्तरकर्मसञ्चयरूपाविद्यां विनिवत्यै स्वयाथात्म्यानुभवरूपानवधिकातिशयानन्दं प्रापय्य पुनर्नावर्तयतीत्यपि शब्दादेवावगम्यते । शब्दश्च १“स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते" इत्यादिकः। तथा च भगवता स्वयमेवोक्तं २'मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानस्संसिद्धि परमां गताः ॥ आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते " इति । नचोच्छिन्नकर्मबन्धस्यासङ्कुचितज्ञानस्य परब्रह्मानुभवैकखभावस्य तदेकप्रियस्यानवधिकातिशयानन्दं ब्रह्मानुभवतोऽन्यापेक्षातदारम्भाद्यसम्भवात्पुनरावृत्तिशङ्का । न च परमपुरुषस्सत्यसकल्पोऽत्यर्थप्रियं ज्ञानिनं लब्ध्वा कदाचिदावर्तयिष्यति । य एवमाह३"प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । उदारास्सर्व एवैते ज्ञानी त्वात्मैव मे मतम्।।आस्थितस्सहि युक्तात्मा मामेवानुत्तमां गतिम् । बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते ॥ वासुदेवस्सर्वमिति स महास्मा सुदुर्लभः" इति । सूत्राभ्यासश्शास्त्रपरिसमाप्तिं द्योतयति । इति सर्व समञ्जसम् ॥ २२॥
इति श्रीशारीरकमीमांसाभाष्ये जगद्यापारवर्जाधिकरणम् ॥ ६॥
-
--
१. छा. ८-१५-१॥--- २. गी. ८.१५,१६ ॥-३. गी. ७-१७,१८,१९॥
For Private And Personal Use Only