________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८८
श्रीशारीरकमीमासाभाष्ये
अ. ४.
विकारावर्ति च तथाहि स्थितिमाह । ४ । ४ । १९ ॥
-
विकारे - जन्मादिके न वर्तत इति विकारावर्ति निर्धूत निखिलविकारं निखिल हे प्रत्यनीककल्याणैकतानं, निरतिशयानन्द, परं ब्रह्म, सविभूतिकं, सकलकल्याणगुणमनुभवति मुक्तः । तद्विभूत्यन्तर्गतत्वेन विकारवर्तिनां लोकानामपि मुक्तभोग्यत्वम् । तथाहि परस्मिन् ब्रह्मणि निर्वि कारेऽनवाधिकातिशयानन्दे मुक्तस्यानुभवितृत्वेन स्थितिमाह श्रुति:१" यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति " १" रसो वै सः रसं ह्येवायं लबध्वाऽऽनन्दी भवति" इत्यादिका । तद्विभूतिभूतं च जगत्तत्रैव वर्तते २“ तस्मिन् लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन " इति श्रुतेः । अतस्सविभूतिकं ब्रह्मानुभवन्विकारान्तर्वर्तिनः आधिकारिकण्डलस्थानपि भोगान् भुङ्ग इति ३" सर्वेषु लोकेषु कामचारः" इत्यादिनोच्यते; न मुक्तस्य जगद्व्यापारः ।। १९ ।।
Acharya Shri Kailassagarsuri Gyanmandir
दर्शयतश्चैवं प्रत्यक्षानुमाने । ४ । ४ । २० ॥
अस्य प्रत्यगात्मनो मुक्तस्य नियाम्यभूतस्य नियन्तृभूतपरम पुरुपासाधारणं जगद्वयापाररूपं नियमनं न सम्भवतीत्युक्तम् ; निखिलजगनियमन रूपी व्यापारः परमपुरुषासाधारण इति दर्शयतः श्रुतिस्मृती४" भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः भीषाऽस्मादग्निवेन्द्रश्च मृत्युर्धावति पञ्चमः" इति ५" एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः " इत्यादिः तथा ६" एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय " इति
१. तै. आन. ७.२१ ॥ २. कठ. २५.८ ॥ - ३. छा. ७-२५-२ ॥ —४. तै. आन. ८-९ ॥ ५. बृ. ५.८-९ ॥ --- - ६. बृ. ६-४.२२ ॥
For Private And Personal Use Only