________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] जगब्यापारवर्जाधिकरणम् .
४८७ १“आत्मा वा इदमेकएवाग्र आसीत् नान्यत्किंचन मिषत् स ईक्षत लोकान्नु सृजा इति स इमान् लोकानसृजत" २"एको ह वै नारायण आसीन ब्रह्मा नेशानो नेमे द्यावापृथिवी न नक्षत्राणि नापो नामिर्न सोमो न सूर्यः स एकाकी न रमेत सस्य ध्यानान्तस्थस्यैका कन्या दशेन्द्रियाणि" इत्यादिषु । ३“यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः" इत्यारभ्य ४" य आत्मनि तिष्ठन्" इत्यादिषु च निखिलजगन्नियमनं परमपुरुषं प्रकृत्यैव श्रूयते।असनिहितत्वाच्च-नचैतेषु निखिलजगन्नियमनप्रसङ्गेषु मुक्तस्य सन्निधानमस्ति; येन जगद्व्यापारस्तस्यापि स्यात्।। प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्ड
लस्थोक्तेः।४।४।१८॥ ५" स खराइभवति तस्य सर्वेषु लोकेषु कामचारो भवति" ६" इमान् लोकान् कामानी कामरूप्यनुसंचरन्" इति प्रत्यक्षेण-श्रुत्या मुक्तस्य जगद्व्यापार उपदिश्यते; अतो न जगद्व्यापारवर्जमिति चेत्तन्न, आधिकारिकमण्डलस्थोक्तेः; आधिकारिका:-अधिकारेषु नियुक्ता हिरण्यगर्भादयः; मण्डलानि-तेषां लोकाः तत्स्था:-भोगाः मुक्तस्याकर्मवश्यस्य भवन्तीत्ययमर्थः ५" तस्य सर्वेषु लोकेषु कामचारो भवति" इत्यादिनोच्यते । अकर्मप्रतिहतज्ञानो मुक्तो विकारलोकान् ब्रह्मविभूतिभूताननुभूय यथाकामं तृप्यतीत्यर्थः । तदेवं विकारान्तर्वर्तिनः आधिकारिकमण्डलस्थान् सर्वान् भोगान् ब्रह्मविभूतिभूताननुभवतीत्यनेन वाक्येनोच्यते न जगद्व्यापारः॥ १८ ॥
___ यदि संसारिवन्मुक्तोऽपि विकारान्तर्वतिनो भोगान् भुते, तर्हि बदस्येव मुक्तस्याप्यन्तवदेव भोग्यजातमल्पं च स्यात्। तत्राह
१. ऐत. १-१॥– २. महो. १-अ. १ ॥-३. बृ. ५-७-३ ॥ -४. शतपथ. १४-५.३० ।-५. छा. ७.२५-२ ॥-६. ते, भृगु. १०.५ ॥
For Private And Personal Use Only