________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७४ श्रीशारीरकमीमांसाभाज्ये
[अ. ४. सूत्रार्थस्तु-'अहं ब्रह्मास्मि'इत्यविभागेनैव ब्रह्मानुभवति मुक्तः,स्वात्मनोऽप्यात्मतयोपासनेन यथावस्थितपरमात्मात्मकस्वरूपस्य दृष्टत्वात्।साधर्म्यश्रुतिस्तु परमात्मशरीरभूतस्य प्रत्यगात्मनोऽपहतपाप्मत्वादिगुणैस्तत्साधर्म्य प्रति. पादयति।१"सोऽश्नुते सर्वान्कामान् सह ब्रह्मणा विपश्चिता" इति ब्रह्मशरीरत या ब्रह्मप्रकारभूतत्वात्स्वात्मभूतेन ब्रह्मणा सह तद्गुणाननुभवतीति वदति। काम्यन्ते इति कामा:-कल्याणगुणाः, कल्याणगुणविशिष्टं ब्रह्मानुभवतीत्यर्थः॥४॥
इति वेदान्तदीपे अविभागेनदृष्टत्वाधिकरणम् ॥ २ ॥
.(श्रीशारीरकमीमांसाभाष्ये ब्राह्माधिकरणम् ॥ ३॥)......
ब्राह्मण जैमिनिरुपन्यासादिभ्यः।४।४।५॥
प्रत्यगात्मनः परं ज्योतिरुपसम्पद्य निवृत्ततिरोधानस्य स्वरूपाविर्भाव एवेत्युक्तम् । तत्र येन स्वरूपेणायमाविर्भवति । तत्स्वरूपं श्रुतिवैविध्याद्विचार्यते । किमपहतपाप्मत्वादिकमेवास्य स्वरूपमिति तेन रूपेणायमाविर्भवति, उत विज्ञानमात्रमेवेति तेन रूपेण, अथोभयोरविरोध इत्युभयरूपेणेति । किं तावत्याप्तम् ? ब्राह्मणेति जैमिनिराचार्यो मन्यते । ब्राह्मण-अपहतपाप्मत्वादिनेत्यर्थः। अपहतपाप्मत्वादयो हि दहरवाक्ये ब्रह्मसम्बन्धितया श्रुताः । ब्राह्मणेति कुतोऽवगम्यते ? उपन्यासादिभ्यः, उपन्यस्यन्ते हि ब्रह्मगुणाः अपहतपाप्मत्वादयः प्रत्यगात्मनोऽपि प्रजापतिवाक्ये २ “य आत्माऽपहतपाप्मा" इत्यादिना २ "सत्यसङ्कल्पः" इत्यन्तेन । आदिशब्देन सत्यसङ्कल्पत्वादिगुणायत्ता जक्षणादयः ३"जक्षत्कीडब्रममाणः" इत्यादिवाक्यावगता व्यवहारा गृह्यन्ते । अत एभ्य उपन्यासादिभ्यः प्रत्यगात्मनो विज्ञानमात्रखरूपत्वं न सम्भवतीति जैमिनेर्मतम् ॥ ५॥
१. ते. आन. १-२॥-२. छा. ८-७-१॥-३. छा. ८-१२-३॥
For Private And Personal Use Only