________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ४.]
अविभागेन त्वाधिकरणम्
गात्मनः स्वरूपं तत्सममिति देवादिप्राकृतरूपप्रहाणेन ब्रह्मसमानशुद्धिं प्रतिपादयति । सहश्रुतिस्त्वेवंभूतस्य प्रत्यगात्मनः प्रकारिणा ब्रह्मणा सह तद्गुणानुभवं प्रतिपादयतीति न कश्विद्विरोधः । ब्रह्मप्रकारतया तदविभागोक्तेर्हि “सङ्कल्पादेव तच्छ्रुतेः" इत्यादि न विरुध्यते, २ " अधिकन्तु भेदनिर्देशात " ३" अधिकोपदेशात्" इत्यादि च ॥ ४ ॥
इति श्रीशारीरकमीमांसाभाष्ये अविभागेनदृष्टत्वाधिकरणम् || २ ||
"
Acharya Shri Kailassagarsuri Gyanmandir
.
वेदान्तसारे — अविभागेन दृष्टत्वात् || आविर्भूतस्वरूपोऽयम्मुक्तात्मा स्वात्मशरीरकं परं ब्रह्म स्वात्मनोऽप्यात्मतया 'अहं ब्रह्मास्मि' इत्यविभागेनैवानुभवति, ४" आत्मेति तूपगच्छन्ति ग्राहयन्ति च " इति तथारूपोपासनेन तथाविधस्वरूपस्य दृष्टत्वात् । ५ य आत्मनि तिष्ठन्... यस्यात्मा शरीरं सत आत्मा” ६'तत्त्वमसि' इत्यादिशास्त्रसिद्धमेव ह्युपासितम् ॥ ४ ॥ इति वेदान्तसारे अविभागेनदृष्टत्वाधिकरणम् ॥ २ ॥
४७३
वेदान्तदीपे - अविभागेन दृष्टत्वात् । किमयं मुक्त आविर्भूतस्वरूपः प्रत्यगात्मा परं ब्रह्म स्वात्मनो विभक्तमनुभवति, उत स्वात्मनोऽप्यात्मतयाऽविभा गेन 'अहं ब्रह्मास्मि' इति संशयः ॥ ७" निरञ्जनः परमं साम्यमुपैति "८" सोऽश्नुते सर्वान्कामान् सह ब्रह्मणा विपश्चितेति" ९" इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः” इति श्रुतिस्मृतिभ्यः विभक्तमनुभवतीति पूर्वः पक्षः । राद्धान्तस्तु१०‘“सर्वं खल्विदं ब्रह्म” ६" ऐतदात्म्यमिदं सर्वम् तत्त्वमसि' इत्यादिना सामानाधिकरण्येन ११' "यः पृथिव्यां तिष्ठन्... यस्य पृथिवी शरीरं" ३"य आत्मनि तिष्ठन् ... यस्यात्मा शरीरम्" इत्यादिषु सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरतया ब्रह्मप्रकारत्वात् तत्तद्वस्तुबुद्धिशब्दास्तत्पर्यन्तविषया इत्यवगम्य ४ “आत्मेति तूपगच्छन्ति इतिन्यायेन स्वात्मनोऽप्यात्मतया 'अहं ब्रह्मास्मि' इत्युपासनेन यथावस्थित परमात्मात्मकस्वात्मनो दृष्टत्वात् मुक्तः स्वात्मनोऽप्यात्मभूतं ब्रह्म 'अहं ब्रह्मास्मि' इत्यविभागेनैवानुभवति ॥
For Private And Personal Use Only
१. शारी. ४-४-८ ॥ - २. शारी. २-१-२२॥३. शारी. ३-४-८ ॥ -- ४, शारी. ४-१-३ ॥–५, ब्रु. ५.७-२२. मा ॥ - ६, छा. ६-८-७ ॥ ७, मु. ३-१-३ ॥ - ८.ले. आन. १-२ ॥ - ९. गी. १४-२ ॥ - १०. छा. ३-१४-१ ॥ - ११. बृ. ५-७-३ ।। *60