________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
---
(श्रीशारीरकमीमांसाभाष्ये अविभागेनदृष्टत्वाधिकरणम् ।।)
अविभागेन दृष्टत्वात् । ४ । ४ । ४ ॥
किमयं परं ज्योतिरुपसम्पन्नः सर्वबन्धविनिर्मुक्तः प्रत्यगात्मा स्वात्मानं परमात्मनः पृथग्भूतमनुभवति, उत तत्प्रकारतया तदविभक्तम् - इति विशये १ " सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" २" यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति " ३" इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च" इत्यादिश्रुतिस्मृतिभ्यां मुक्तस्य परेण साहित्यसाम्यसाधर्म्यावगमात् पृथग्भूतमनुभवति
Acharya Shri Kailassagarsuri Gyanmandir
( सिद्धान्तः ) -
इति प्राप्त उच्यते - अविभागेन- इति । परस्माद्ब्रह्मणः स्वात्मानमविभागेनानुभवति मुक्तः । कुतः दृष्टत्वात् परब्रह्मोपसम्पच्या निवृत्ताविद्यातिरोधानस्य याथातथ्येन स्वात्मनो दृष्टत्वात् । स्वात्मनः स्वरूपं हि४ "तत्वमसि " ५" अयमात्मा ब्रह्म" ४" ऐतदात्म्यमिदं सर्वे" ६" सर्व खल्विदं ब्रह्म" इत्यादिसामानाधिकरण्यनिर्देशैः ७"य आत्मनि तिष्ठन्नामनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः” “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" इत्यादिभिश्व परमात्मात्मकं तच्छरीरतया तत्प्रकारभूतमिति प्रतिपादितम् ९" अवस्थितेरिति काशकृत्स्नः" इत्यत्र । अतोऽविभागेन 'अहं ब्रह्मास्मि' इत्येवानुभवति। साम्यसाधर्म्य व्यपदेशो ब्रह्मप्रकार भूतस्यैव प्रत्य
१. तै. आन. १-२ ॥ २. मु.३, १-३ ॥ - ३. गी. १४-२ ॥ - छा. ६-८-७॥ —५ ॥ ६. छा. ३-१४-१॥७. बृ. ५-७.२२. मापा ॥८. आरण. १-३-२१॥ -8. शारी. १ ४ २२ ॥
For Private And Personal Use Only