________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७५
पा.४.
ब्राह्माधिकरणम्. चिति तन्मात्रेण तदात्मकत्वादित्यौडुलो
मिः ।४।४।६॥ चैतन्यमानमेवास्य स्वरूपमिति तेन रूपेणाविर्भवतीत्यौडुलोमिराचार्यों मन्यते । कुतः १ तदात्मकत्वात् तावन्मात्रात्मकत्वादस्य प्रत्यगात्मनः । २" स यथा सैन्धवधनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव" ३"विज्ञानघन एव" इत्यवधारणात् विज्ञानमात्रमेवास्य स्वरूपमित्यवगम्यते । अतोऽस्य गुणान्तराभावात् ४"अपहतपाप्मा" इत्यादयः शब्दाः विकारसुखदुःखाद्यविद्यात्मकधर्मव्यावृत्तिपरा इति चिति तन्मात्ररूपेणाविर्भाव इत्यौडुलोमर्मतम् ॥ ६॥
सम्पति भगवान् बादरायणः स्वमतेन सिद्धान्तमाहएवमप्युपन्यासात्पूर्वभावादविरोधं बादराय
__ णः।४।४।७॥ एवमपि-विज्ञानमात्रस्वरूपत्वप्रतिपादने सत्यपि, सत्यकामत्वादीनां पूर्वोक्तानां गुणानामविरोधं बादरायण आचार्यों मन्यते । कुतः? उपन्यासात्पूर्वभावात्-औपनिषदात् ४“य आत्माऽपहतपाप्मा" इत्याघुपन्यासात्ममाणात् पूर्वेषाम्-अपहतपाप्मत्वसत्यकामत्वादीनामपि भावात्-विद्यमानत्वात् । तुल्यप्रमाणकानामितरेतरबाधो न युज्यत इत्यर्थः । नच वस्तुविरोधादपहतपाप्मत्वादीनामविद्यापरिकल्पितत्वं न्यास्यम् ,विशेषाभावात् 'विपरीतं कस्मान्न भवति' इति न्याया।तुल्यबलत्वे अशक्यस्यावधारणस्यान्यपरत्वमेव न्याय्यम् । एवमप्यविरोध इत्यभ्युपगम्य वदन् ज्ञानमात्रमेवास्य स्वरूपं नान्यत्किञ्चिदस्तीत्ययमर्थः३ "वि१. चैतन्यमात्रमेवात्मनः. पा॥-२. बृ.६-५-१३॥-३. ब ४-४-१२॥-४.छा.८-७-१॥
For Private And Personal Use Only