________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्पयाविर्भावाधिकरणम् .
४६९ कर्मसम्बन्धतत्कृतदेहादिविनिर्मुक्तः स्वाभाविकरूपेणावस्थितोऽत्र १"खेन रूपेणाभिनिष्पद्यते"इत्युच्यते ! अतो नित्यप्राप्तस्यापि स्वरूपस्य कर्मरूपाविद्यातिरोहितस्य तिरोधाननिवृत्तिरत्राभिनिष्पत्तिरुच्यते। कुतः? प्रतिज्ञानात्-सा हि प्रतिपाद्यतया प्रतिज्ञाता । कुत इदमवगम्यते १ २“य आत्मा" इति प्रकृतं प्रत्यमात्मानं जागरिताद्यवस्थात्रितयविनिर्मुक्तं , प्रियाप्रियहेतुभूतकारब्धशरीरविनिर्मुक्तं च प्रतिपादयितुम् ३"एतं त्वेव ते भूयोऽनुव्याख्यास्यामि" इति पुनःपुनरुक्त्वा १"एवमेवैष सम्प्रसादोऽ स्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इत्यभिधानात् । अतः कर्मणा सम्बद्धस्य परं ज्योतिरुपसम्पद्य बन्धनिवृत्तिरूपा मुक्तिः स्खेन रूपेणाभिनिष्पत्तिरुच्यते । स्वरूपाविर्भावेऽप्यभिनिष्पत्तिशब्दो दृश्यते, 'युक्त्याऽयमों निष्पद्यते' इत्यादिषु ॥ २ ॥
यञ्चोक्तम्-आत्मस्वरूपस्य सुषुप्तावपुरुषार्थत्वदर्शनात्स्वरूपाविर्भावे मोक्षशास्त्रस्यापुरुषार्थावबोधित्वं स्यादिति कृत्वा देवायवस्थावत्सुखसम्बन्ध्यवस्थान्तरपाप्तिरभिनिष्पत्तिः-इति ; तत्रोत्तरम्
आत्मा प्रकरणात् । ४।४।३॥ स्वरूपेणेवायमात्मा अपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणक: प्रकरणादवगम्यते ; २“य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" इति हि प्रजापतिवाक्यप्रक्रमः; इदं च प्रकरणं प्रत्यगात्मविषयमिति ४"उत्तराञ्चेदाविर्भूतस्वरूपस्तु" इत्यत्र प्रतिपादितम् । अतोऽपहतपाप्मत्वादिखरूप एवायमात्मा संसारदशायां कर्माख्याविद्यया तिरोहितस्वरूपः परं ज्योतिरुपसम्पद्याविंभूतस्वरूपो भवति । अतः प्रत्यगात्मनोऽपहतपाप्मत्वादयस्वाभाविका
१. छा. ८ १२ २ ।।-२. छा. ८-७-१॥--३. छा. ८-९-३॥-४. शारी.
१-३-१८॥
For Private And Personal Use Only