________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
e
श्रीशारीरकमीमांसाभाष्ये
[अ. ४.
पसम्पन्नस्य पुरुषार्थः, येन स्वरूपाविर्भाव एव मोक्षः इत्युच्येत; १"स एको ब्रह्मण आनन्दः। श्रोत्रियस्य चाकामहतस्य " २" रसं ह्येवायं लध्वाऽनन्दी भवति" इत्यादिभ्यो मुक्तस्य सुखानन्त्यश्रवणात् । नचापरिच्छिन्नानन्दरूप चैतन्यमेवास्य स्वरूपम्, तच्च संसारदशायामविद्यया तिरोहितं परं ज्योतिरूपसम्पन्नस्याविर्भवतीति शक्यं वक्तुम्, ज्ञानस्वरूपस्य तिरोधानासम्भवात् । प्रकाशपर्यायस्य ज्ञानस्य तिरोधानं तद्विनाश एवेति हि पूर्वमेवोक्तम् । नच प्रकाशमात्रस्याऽनन्दता सम्भवति ; सुखस्वरूपता ह्यानन्दस्वरूपता ; सुखस्वरूपत्वं चात्मनोऽनुकूलत्वम् प्रकाशमावात्मवादिनः कस्य प्रकाशोऽनुकूल वेदनीयो भवेदिति प्रकाशमानात्मवादिनः कथंचिदप्यानन्दस्वरूपता दुरुपपादा | स्वरूपापत्तिमात्रे च साध्ये स्वरूपस्य नित्यनिष्पन्नत्वादुपसम्पन्नस्य ३" स्वेन रूपेणाभिनिष्पद्यते " इति वचनमनर्थकं स्यात् । अतोऽपूर्वेण साध्येन रूपेण सम्पद्यते । एवं | । च" अभिनिष्पद्यते " इति वचनं मुख्यार्थमेव भवति । ३" स्खेन रूपेण " इत्यप्यानन्दैकान्तेन स्वासाधारणेनाभिनिष्पद्यत इति सङ्गच्छत इति ॥ - सिद्धान्तः -
(
एवं प्राप्ते प्रचक्ष्महे - सम्पद्याविर्भावः - इति । अयं प्रत्यगात्माऽचिरादिना परं ज्योतिरूपसम्पद्य यं दशाविशेषमापद्यते स स्वरूपाविर्भावरूपः ; नापूर्वाकारोत्पत्तिरूपः । कुतः स्वेन शब्दात् ३" खेन रूपेण " इति विशेषणोपादानादित्यर्थः । आगन्तुकविशेषपरिग्रहे हि ३" स्वेन रूपेण " इति विशेषणमनर्थकं स्यात्, अविशेषणेऽपि तस्य स्वकीयरूपत्वसिद्धेः ।। यत्क्तं स्वरूपस्य नित्यप्राप्तत्वात् ३" उपसम्पद्याभिनिष्पद्यते " इति वचनमनर्थकमिति-तत्रोत्तरं
मुक्तः प्रतिज्ञानात् । ४ । ४।२॥
१. तै. भान. ८-अनु. ४ ॥ - २ तै, आन. ७-१ ॥—३. छा. ८-१२-२ ॥
For Private And Personal Use Only