________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमते रामानुजाय नमः
श्रीभगवद्रामानुजविरचिते
श्रीशारीरकमीमासाभाष्ये -..(चतुर्थाध्याये-चतुर्थः पादः-सम्पद्याविर्भावाधिकरणम्।।१)...
सम्पद्याविर्भावस्स्वेनशब्दात् । ४।४।१॥
परं ब्रह्मोपासीनानामात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानामचिरादिना मार्गेणापुनरावृत्तिलक्षणा गतिरुक्ताः इदानीं मुक्तानामैश्वर्यप्रकारं चिन्तयितुमारभते । इदमाम्नायते- १"एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" इति । किमस्माच्छरीरात्समुत्थाय परज्योतिरुपसम्पन्नस्य देवादिरूपव
साध्येन रूपेण सम्बन्धोऽनेन वाक्येन प्रतिपाद्यते , उत स्वाभाविकस्य स्वरूपस्याविर्भाव इति संशये, साध्येन रूपेण सम्बन्ध इति युक्तम् । अन्यथा ह्यपुरुषार्थावबोधित्वं मोक्षशास्त्रस्य स्यात् , स्वरूपस्य स्वतोऽपुरुषार्थत्वदर्शनात् । न हि सुषुप्तौ देहेन्द्रियव्यापारेषूपरतेषु केवलस्यात्मखरूपस्य पुरुषार्थसम्बन्धो दृश्यते । न च दुःखनिवृत्तिमात्रं परं ज्योतिरू
१. छा. ८-१२-२॥
For Private And Personal Use Only