________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[म. ४. गुणाः परं ज्योतिरुपसम्पन्नस्याविर्भवन्ति ; नोत्पद्यन्ते ; यथोक्तं भगवता शौनकेनापि १“यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान ज्ञानमात्मनः क्रियते तथा । यथोदपानकरणात्कियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतस्सम्भवः कुतः । तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते" इति । अतो ज्ञानानन्दादिगुणानां कर्मणा आत्मनि सङ्कुचितानां परं ज्योतिरुपसम्पद्य कर्मरूपबन्धक्षये विकासरूपाविर्भावो नानुपपन्न इति मुष्ठुक्तं-सम्पद्याविर्भावः-इति ॥ ३॥
इति श्रीशारीरकमीमांसाभाष्ये सम्पद्याविर्भावाधिकरणम् ॥ १ ॥
वेदान्तसारे-सम्पद्याविर्भावस्खेनशब्दात् ॥ २"एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते" इति सिद्धस्यैव प्रत्यगात्मस्वरूपस्य अनादिकर्मणा तिरोहितस्य परं ज्योतिरुपसम्पद्याविर्भाव उच्यते ; २"खेन रूपेण' इति विशिष्याभिधानात् ॥ १॥
मुक्तः प्रतिज्ञानात्।। आत्मस्वरूपमात्रस्य प्रागेव सिद्धत्वेऽपि कर्मवन्धविनिर्मुक्तापरिच्छिन्नज्ञानादिवरूपस्य यत्राविर्भाव उच्यते । ३"एतन्त्वेव ते भूयोऽनुव्याख्यास्यामि'' इति जागरिताद्यवस्थातिरोधानविनिर्मुक्तस्यैव वक्तव्यतया प्रतिज्ञानात् ॥ २॥
आत्मा प्रकरणात् ॥३"भूयोऽनुव्याख्यास्यामि" इति प्रकृतापहतपाप्मत्वादिगुणक आत्मेति प्रकरणावगम्यते ; ४''य आत्माऽपहतपाप्मा' इस्यारभ्य "सत्यकामस्सस्यसङ्कल्पस्सोऽन्वेष्टव्यः" इति प्रकृस्य ३"एतन्त्वेव ते भूयोऽनुव्याख्यास्यामि" इत्युक्तम् ॥ ३॥
इति वेदान्तसारे सम्पद्याविर्भावाधिकरणम् ।। १ ।।
वेदान्तदीपे-सम्पद्याविर्भावस्खेनशब्दात् ।। २ " एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते"
१. विष्णुधर्म. १०४. ५५, ५६, ५७ ॥-२. छा. ८-१२-२ ॥-३. छा. ८.९. ३॥-४. छा. ८-७१॥
For Private And Personal Use Only