SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पा. www.kobatirth.org ३.] कार्याधिकरणम्. ४६५ ; स्माच्छरीरात्समुत्थाय परं ज्योतिरूपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते " इत्यादिकारश्रुतयः, १" ये चेमेऽरण्ये श्रद्धा तपः" इति च प्रकुप्येयुः परमेवेति नियमे १" तद्य इत्थं विदुः" इति प्रकुप्येत् । तस्मादप्रतीकालम्बनाश्नयतीति भगवाम्बादरायणो मन्यते । प्रतीकालम्बनास्तु - अचिन्मिश्रम् १ केवलमचिद्वस्तु च 'सिंहो देवदत्तः' इतिवत् ब्रह्मदृष्ट्या स्वरूपेण वा तद्वस्तु य उपासते, ते अ प्रतीकालम्बना:- तद्व्यतिरिक्ताः । सर्वशं सर्वकारणं सत्यसङ्कल्पं निखिलहेयप्रत्यनीकानवाधिकातिशयानन्दस्वरूपं ब्रह्मोपासते ये, ये च प्रत्यगात्मानं भूतसूक्ष्मैस्सम्परिष्वक्तं सर्वत्र वर्तमानं भूतसूक्ष्मव्यतिरिक्तं ज्ञानैकस्वरूपं नित्यं निविकारं २" आत्मनि तिष्ठन्" इत्यादिनावगतब्रह्मात्मभावं पञ्चाग्निविद्योदितमुपासते, तानुभयविधान्नयति १ तद्य इत्थं विदुर्येचेमेऽरण्ये" इत्युभयविषयश्रुतेः । तत्क्रतुश्च ३' यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति " इत्युभयेषामेवापुनरावृत्तिस्सम्भवति । अचिन्मिश्रं केवलमचिद्वस्तु चोपासीनानां तत्क्रतुन्यायादेव पुनरावृत्तिरवर्जनीया ॥ १४ ॥ Acharya Shri Kailassagarsuri Gyanmandir विशेषञ्च दर्शयति ।। प्रतीकायुक्तलक्षणमचिन्मिश्रं केवलमचिद्वस्तु चोपासीनानां सर्वेषां गत्यनपेक्षं परिमितफलविशेषं च दर्शयति श्रुतिः - ४ "यानानो गतं तत्रास्य यथाकामचारो भवति " इत्यादिका । अतः ५. "" ब्रह्मणा सह ते सर्वे" इति वचनं नार्चिरादिना गतानां गतिप्रकारविषयम्; अर्चिरादिना गतानां देहावसानसमय एव सुकृतदुष्कृतयोर्हानाद्धिरण्यगर्भलोक वाप्तितद्वासतत्रस्थभोगानुभवहेत्वभावात्, तत्क्रतुन्यायविरोधात्, तदानीमेव ब्रह्मप्राप्तिश्रुतिविरोधाच्च । ५" ब्रह्मणा सह ते सर्वे" इति वचनं तु पुण्यकर्मविशेषेण हिरण्यगर्भलोकं प्राप्तानां ६" तदुपर्यपि बादरायणः” इति न्यायेन तत्रैव निष्पन्नविद्यानां गतिप्रकारविषयम् । ७" ते ब्रह्मलोके " इति तु ब्रह्मलोकशब्दस्य कर्मधारयवृत्त्या ब्रह्मविषयत्वात्, ब्रह्मण्युपास्ये वर्तमानाः परान्तकाले चरमदेहावसानसमये, परामृतात् परस्माद्ब्रह्मण उपासनप्रीताद्धेतोः, परिमुच्यन्ति सर्वे सर्वस्माद्बन्धाद्विमुच्यन्त इति ७" वेदान्तविज्ञानसुनिश्चितार्थाः" इति प्रकरणादवगम्यते । १'' तद्य इत्थं विदुः" इति पञ्चाग्निविदां ब्रह्मप्राप्त्यपुनरावृत्तिश्रवणात्तत्क्रतुन्यायेनाचिद्वियुक्तब्रह्मात्मकात्मस्वरूपोपासनं विवक्षितमिति नि १. छा. ५-१०-१ ॥ -- २. बृ. ५-७-२२ मा पा ॥। ३. छा. ३-१४-१ ॥― ४. छा, ७-१-५॥ ५ ॥ ६. शारी. १-३-२५ ॥ । - ७. तै. ना. ११-२२ अनु ॥ *59 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy